________________
भूमिका प्रस्य खलु मानसारस्य प्रन्थ-वामील-तैलङ्ग-मलयालं-नागरीतिपञ्चप्रकाराभिलिपिभिर्लिखितानि प्राचीनहस्तलिखितपुस्तकानि समालोच्य पाश्चात्याधुनिकसरणिमवलम्म्य मया प्रथमसंस्करणं विहितम् । तथा च राजभाषायामनुवादोऽपि कृतः ।
संस्कृतभाषायामेव मानसारं लिखिसमिति हि प्रसिद्धिः । परन्तु सा भाषा सर्वथैवासंस्कृता । धूलरादिपाश्चात्त्यपण्डितैस्तथा च भाण्डारकरादिभारतीयविद्वदुरन्धरैरेतद् बर्बरजनीचितसंस्कृतमिति वर्जितम् (१)। ___ मानसारमाधुनिकैर्दुर्बोध्यमनधिगम्यं चेत्यत्र कारणान्तरमपि वर्तते यतोऽदसीयसहस्रप्रयपरिमितपारिभाषिकशब्दानामर्था दृष्टचरसकलभाषाभिधानसाहाय्येनाप्यधिगन्तुं न शक्यन्ते । प्रतो मया सहस्रपृष्ठात्मकं भारतीयशिल्पशास्त्रविषयकमेकमभिधान सम्पादिवम् । सधाधुना प्रकाशितमेव । तत्र तु सर्वेभ्य एव वास्तुशास्त्रेभ्यः सर्वेभ्यश्च शिखालेखेभ्यस्तथा वेदबामणोपनिषद्भ्यः पुराणागमरामायणमहाभारतेभ्यः काव्यनाटकेतिहासेभ्यो नीतिज्यो. तिषशास्त्रेभ्यश्च संगृहीतानां चतुःसहस्राधिकशिल्पीयशब्दानां प्रयोगं सोदाहरणं प्रदर्य तदर्थानां स्थिरीकरणे यत्नमकार्षम् । एतदभिधानसाहाय्येनैव मानसारस्यार्थोपखब्धिश्चानुबादश्च सम्भाव्यते स्म । __ मानसारे प्रस्तुतानां विषयाणां संक्षेपेण विवेचनमधुना कर्तव्यम् । मानसारं खलु गृहादिनिर्माणविषयकवास्तुशास्त्रान्तर्गतम् । वास्तुशालं तु शिल्पशास्त्रान्तर्भूवम् । शिल्पानां बहवो भेदाः सन्ति । तथा च वात्स्यायनीयकामशाने चतुःषष्टिकलात्मकानि शिल्पानि
(१) एपिग्राफिया रसिका, प्रथमवरम्, पृ० ३७७ ।