________________
NE
248
252
256
शालाविधानम् कर्णहादिसंयुक्तं प्रासादवदलङ्कृतम् । एकानेकतलोपेतं वास वासोपरि न्यसेत् ॥ १२४ ॥ एतत्तु मौलिकं प्रोक्तं देवतानां च योग्यकम् । तदेव कोणे चाने तु वासभध्ये तु मण्डपम् ।। १२५ ।। एवं तु चक्रवर्ती(ति)नां कुर्यादालयं विदुः । एवं तु मौलिकं प्रोक्तं वक्ष्यते चतुरालयम् ।। १२६ ॥ विस्तारे दशमागे(ग) तु चायामे द्वादशांशकम् । द्विचतुर्भाग(गं) तन्मध्ये विस्तारायामतोऽङ्गणम् ॥ १२७ ॥ तदहिश्चावृतांशेन नन्द्यावर्त चालिन्दकम् ।
दहिश्च चतुःसाला तत्पूर्वादिक्रमान्न्यसेत् ॥१२८॥ प्रागुददक्षिणायाम दक्षिणे च ललाटकम् । याम्ये प्राक्प्रत्यगायामं पश्चिमे तु ललाटकम् ।। १२६ ॥ पश्चिमे याम्यु(म्यो)दक्दीर्घ तद्वक्त्रं च तथोत्तरे । उदक प्राक् पश्चिमे दीर्घ तस्य नेत्रं तु पूर्वके ॥१३०॥ तत्तच्छालाविशाले तु तदंशेन गुणांशकम् । पूर्वे च पश्चिमे शाला तत्तद्दीर्घ(दैय) षडंशकम् ।। १३१ ॥ दक्षिणे चोत्तरे शाला चाष्टांशं च तथा(स्या)यतम् । एवमेतञ्चतुःशाला दण्डकाकृतिसंयुतम् ॥ १३२ ॥ तद्वहिः परितो वारं चैकगंशेन मे(चै)व च । एकद्वित्रिद्वियोगं वा नेत्रविस्तारनिर्गमम् ॥ १३२॥ तत्तच्छाला द्विनेत्रं(त्रा) स्याद्वहिर्नेकनिर्गमम् । चतुर्नेत्रं बहिः पश्येत्तस्मादेवं चतुर्मुखम् ॥ १३४॥ अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कतम् । एकानेकतलोपेतं सर्वालङ्कारसंयुतम् ॥ १३५॥ एवं चतुर्मखं प्रोक्तं नन्द्यावर्ताकतिर्भवेत् । द्वादशांश(य) विशाले तु मनुभागं तथायतम् ॥ १३६ ।। चतुःषड्भागविस्तारमा(रा)याम [च] मध्यमाणङ्गम् । नाहेश्यावृतांशेन पूर्ववत्तदलिन्दकम् ॥ १३७ ॥
260
264
268
272