________________
३३]
२१३
383
399
396
गोपुरविधानम् एकभागेन कुड्यं स्यान्नालिगेहं तु शेषकम् । एकभागावृतालिन्द्र(न्द) मध्यभद्रं युगांशकम् ।। १६४ ॥ तदर्ध नेत्रभद्रं स्यात्तदर्ध भद्रनिर्गमम् । अष्टभागं तथायाम मध्ये भद्रं षडंशकम् ॥ १५ ॥ शेषं तत्पूर्ववत्प्रोक्तं कुर्यात्तच्छिल्पि(ल्प)वित्तमः । पञ्चषड्भागविस्तारे चायामं तद्विभाजिते ॥ १६६ ॥ नेत्रभद्र(द) द्विभागं तत् शे(च्छे)षांशं पूर्ववद् भवेत् । पञ्चभागविशाले तु सप्तभागं तथायते ।। १६७ ॥ मध्यभद्रं तु भूतांशे(शं) विस्तारं चैकनिर्गमम् । अन्येषां पूर्ववत्कुर्यादथवांशाधिकायतम् ॥ १६८ ।। षड्भागं नद्रविस्तारमेकभागेन निर्गमम् । शेषं पूर्ववदुद्दिष्टं तदर्धांशाधिकायतम् ॥ १६६ ॥ पञ्चाशं भद्रविस्तारं निर्गमं चैकभागिकम् । शेषं प्रागुक्तवत्कुर्यात्पतिभागदयं(गायत) तथा ॥ २०० ।। षड्भागं मध्यभद्रं च प्र(तु चान्येषां पूर्ववद् भवेत् । षडंश भागमाधिक्यं विस्तारायामकं तथा ॥ २०१ ॥ एकांशं भित्तिविस्तारं परितः शेषं तु गेहकम् । एकभागावृतालिन्द्र (न्दं) पञ्चाशं मध्यभद्रकम् ।। २०२ ॥ नेत्रभद्रं चतुर्भागमेकांशं भद्रनिर्गमम् । एकभागाधिकायाम मध्यभद्रं षडंशकम् ॥ २०३ ॥ तस्मदाधिक्यभागं तु भूतांश भद्रमीरितम् ।। मायामे दशभागे तु भद्रतारं षडंशकम् ॥ २०४ ॥ पायामे रुद्रभागं तु सप्तांशं भद्रविस्त(स्ता)रम् । द्वादशांशं तथायामे मध्यभद्रे गजांशकम् ॥ २०५॥ निर्गमं चैकभागं स्याच्छेषं प्रागुक्तवर्ण(अ)येत् । एवं तद्वारशोभं स्यादेकभूमिरिति स्मृता ।। २०६ ॥ विस्तारे पञ्चभागे तु ए(चै)कभागाधिकायतम् । त्रिचतुर्भागनालं स्पाच्छेषं भित्तिविशालकम् ॥ २०७ ॥
400
404
408
412