________________
२०६
[अध्यायः
192
196
200
मानसारे अथवा चतुरनं च स्तूपिरे(मे)कं चतुर्मुखम् । एवं चतुःस्थ(a)लं प्रोक्तं पञ्चभूम्या(मम)धुनोच्यते ॥६६॥ पूर्ववद् भागमानेन प्रस्तरं पूर्ववद् भवेत् । सार्धभूतांशकं चैवमुपरिश्चा(चा)धितुङ्गकम् ॥६॥ द्वितीयं प्रस्तरोत्तुङ्गं सत्रिभार्ग द्विभागिकम् । ऊर्ध्वपाद(दं) शरांशं तु तृतीयं प्रस्तरोदयम् ॥१८॥ सार्धद्विभागमानेन अ(चो)र्ध्वपाद(दं) युगांशकम् ।। चतुर्थ प्रस्तरोत्संधं सपादद्वयांशकं भवेत् ॥ ६ ॥ तदूर्ध्वाघ्रियुगांशं तु पञ्चभाग(प्रस्तरं च) द्विभागिकम् । वेदिकोचं शिवांशं स्याद् प्रोवोच्चं तु द्विभागिकम् ॥१०॥ द्विभागं शिखरतुङ्गं स्यात् शि(च्छि)खरार्ध तच्छिखादयम् । द्विलखाटे महानासि चैकादशशिखान्वितम् ॥१०१॥ अन्येषां च तलानां च प्रस्तरादि च पूर्ववत् । पादानामपि सर्वेषां प्रस्तराणां तले तले ॥१०२॥ एवं मानं प्रकुर्वीत वेदिकादिगलान्वितम् । शिखरादि शिखामानं पूर्ववद्युक्तिता न्यसेत् ॥ १०३॥ अथवा द्वारशोभादि गोपुराणां विशेषतः । विस्तारद्विगुणोत्सेधं जन्मादिस्तूपिकान्तकम् ॥ १०४ ॥ द्विगुणा च हीनं वा चाधिक्यं च निधोन्नतम् । . सार्ध तु द्विगुणोत्सधं पादानं द्विगुणोन्नतम् ॥ १०५ ।। क्षुद्रगोपुरमेवं तु मध्यमं तत्प्रवक्ष्यते । क्षुद्रात्तु पादहीनं वा सा(चा)र्धहीनोदयं तु वा ॥१६॥ एवं तु मध्यमं प्रोक्त मध्यमात्पादहीनकम् । विस्तारादर्धमुत्सेधं मुख्यगोपुरमेव च ॥ १०७ ॥ पूर्ववत्प्रस्तराद्यन्तं चोर्ध्व स्तूपिकान्तकम् । गण्यमानं च सर्वेषां भागमानं(न)वशो(शादु)च्यते ॥ १०८।। तबतुर्भागिकं कृत्वा ए(चे)कभागं गलोदयम् । शिखरोष(च) द्विभागं कुर्यादेकांश तच्छिखोदयम् ॥ १० ॥
204
208
212
216