________________
दशतलविधानम् तदूर्ध्व पादतुङ्गं भूतं तदर्थ प्रस्तरात्सेधं । सार्धवेदांशकं पादमूर्ध्वमञ्च द्वं(ञ)शकं कुर्यात् ॥ १२ ॥ वेदांशं चाङ्क्रितुङ्गं चार्ध प्रस्तरात्सेधम् । तद्वयमायिक(मधिक) पादं साधींशं प्रस्तमु(ग)त्तुङ्गम् ॥ १३ ॥ दूर्ध्वाघ्रि गुणांशं तदर्धमूर्ध्वमञ्चोच्चम् । माधीश(शं) पादतुङ्ग सपादांशं प्रस्तरोत्तुङ्गम् ॥ १४ ॥ पादं द्वयमप्युच्च(५) शिवांशं प्रस्तरमु(गे)त्सेधम् ।। सवयं चोर्ध्वपादं तदर्धमूर्ध्वमञ्चतुङ्गं स्यात् ॥ १५ ॥ द्विभागं चार्ध्वपादं चैकांशं चोपरि मञ्चं स्यात् । तत्सम वेदिकात्संधं ग्रोवतुङ्गं कलांशकं स्यात् ॥ १६ ॥ वेदांशं शिखरात्तुङ्गं शेषांशं शिखरा(खा)दयं कथितम् । ऊर्ध्वं चोर्ध्वतले सर्वे कर्णहादिमण्डितम् ॥ १७ ॥ एकभाग(गं) द्विभागं वा चान्तश्चावृतालिन्दकम् । प्रधिष्ठानोपपीठे वा महावेद्यादिमेव वा ॥१८॥ अर्ध्वं चोर्ध्वतले कुर्यात्सर्वालङ्कारसंयुतम् । नानालङ्कारसर्वाङ्गं युक्त्या प्रागुक्तवन्नयंत् ॥ १६ ॥ पजरं शिखरं पादं मसूरं प्रस्तरं वलभीतोरणनीडं कल्पयेत् । दशतलाख्यविमाने चित्रक(म)ल्पमत्र महदल्पनासिकम् ॥ २० ॥
इति मानसारे वास्तुशास्त्रे दशतलविधानं नाम अष्टाविशारध्यायः॥
22