________________
१४०
मानसारे
[अध्यायः
344
348
352
356
मण्डपे स्थण्डिलं कृत्वा शालिभिश्च स्थलं न्यसेत् पञ्चविंशत्पदं न्यस्य शुद्धतण्डुलरेखया ॥ १७१ ॥ दभैंरास्तीर्य तत्पश्चात्पादप्रक्षालनं कुरु । ततश्चाचमनं कुर्यात्सकलीकरणं कुरु ॥ १७२ ॥ पुण्याहं वाचयित्वा तु स्थपतिर्ब्राह्मणैः सह। . ब्रह्मादिदेवतानां च गन्धपुष्पादिधूपकैः ॥ १७३ ।। स्तूपिकीलं समुद्धृत्य स्थण्डिलोपरि विन्यसेत् । कीलस्य परिता देशे निक्षिपेचतुरिष्टका( काम् ) ॥ १७४ ॥ तद्वहिः परितः शुद्धतोयपूर्णान्घटान्न्यसेत् । ईशस्यान्तः प्रदेशे तु मूलकुम्भं विनिक्षिपेत् ॥ १७५॥ . ससूत्राङ्ग(ङ्गान्) सवस्त्र(खान्) च सकुर्चान रुद्रपल्लवान् । सविधानफलं(ल)युक्तं(क्तान्) परितोऽष्टघटान्न्यसेत् ॥ १७६ ॥ कोलस्य पूर्वदिग्देशे रजलोहेश(इं) च निक्षिपेत् । नववस्त्रे[ण] सकुर्च च प्रा(चा)च्छाथ रत्नपात्रकम् ॥ १७७ ।। स्तूपिकीलं च संछाद्य नववस्त्रेण कूर्चकम् । पाराध्य मूलकुम्भे तु भुवनाधिपतिं जपेत् ॥ १७८ ॥ गन्धपुष्पैः समभ्यर्य नैवेद्यानि निवेदयेत् । धूपदीपं दद्ये(घा)त्पश्चान्नृत्तगीतादिघोषणैः ॥ १७६ ॥ इन्द्रादि चाष्टकुम्भानामष्टशक्तीः प्रपूजयेत् । प्रणवादि नमोऽन्तेन तत्तन्नाम्ना प्रपूजयेत् ॥ १८० ॥ स्तूपिकीखं समभ्यर्य गन्धपुष्पैश्च धूपकैः । कुण्डे वा स्थण्डिले वापि होम कुर्यात्तदप्रके ॥ १८१ ॥ समिदा(धादि) चरं()लाजान्प्रत्येकं पञ्चविंशति(तिः)। इलेखाबीजमुच्चार्य प्रणवादिनमोऽन्तकम् ॥ १८२ ॥ व्याहत्या(त्य)न्ते तत: शिल्पी स्थण्डिले प्रान्तमाश्रयेत् । यपदेवालये कोलं ध्यात्वा तत्पररुपकम् ॥ ८३ ॥
360
364
368