________________
विमानलक्षणम् अन्तर्वापि बहिर्वापि चोर्ध्वं च प्रतिसंयुतम् । प्रस्तरस्योक्तवत्कुचोपपीठमि(स्य)ति स्त()वा ॥ १३४ ।। कुर्यात्तु लुप(पा)मूले(लं) तु यत्तद्वलार्थ(थ) शोभितम् । उक्तादनुक्तमान चेद्विपत्तो(त्य)हित्यमावहेत् ॥ १३५ ॥ तस्मादा(तु) चोक्तवत्सर्व कुत्तु संपदास्पदम् । कम्पवृत्तं च लुपामूले शोभार्थ तु बलार्थकम् ॥ १३६ ॥
(मुखभद्रम) सर्वेषां मुखभद्रं स्गलक्षणं वक्ष्यतेऽधुना । शिखरालम्बनं चादा तत्पालिकावसानकम् ।। १३७ ।। अथवा प्रस्तरोोदा चोत्तरावनि(नी)तं तदा। मुखभद्रोदयमेवं चोक्तवद्विस्तृतं भवेत् ।। १३८॥ सप्तदशांशकं तुङ्गे द्विभाग प्रस्तरोदयम् । एकांशं वेदिकोत्तुङ्गं गलतुङ्गं गुणांशकम् ।। १३६ ।। त(यं तलतुङ्गं स्यात्तस्मादूर्वा शिखान्तकम् । वेदांश वच्छिखांशेन गल(ला) वक्रं गुणांशकम् ॥ १४०॥ शेषं तु मालिकान्तं च पञ्चदशांशमेव च । प्रस्तरस्य कुर्यादन्यच्छेषं प्रागुक्तवनयेत् ॥ १४१ ॥ नासिकं लम्बनं चैकं लम्बन तद्यं तु वा। पञ्चाशद्वि(य)शतारं स्यात्तदर्ध कुक्षिविस्तृतम् ॥ १४२ ।। कुक्ष्यन्तस्(न्तैः) सद्मसंयुक्त वातायनमथापि वा। गवाक्षाकारपत्रं वा पट्टिकास्पदपत्रयुत् ॥ १४३ ॥ प्रथवा चित्रसंयुक्तं सर्वालङ्कारसंयुतम् । नासिकावृतबाह्ये तु गवाक्षाकारं तु पत्रयुक् ।। १४४ ॥ तस्मादन्तर्गता(ते)श्वादिदेवभूतादिरूपकैः। . व्यालसिंहादिहंसामिवल्यादिभूषितम् ॥ १४५ ॥
17