________________
१८]
विमानलक्षणम् एका(कस्मा)त्सप्त विकल्पान्तं वैश्यानां च प्रकीर्तितम् । एका (कस्मात्पश्व विकल्पान्तं शूद्राणां तु योग्यकम् ॥ १०८ ॥ अन्यदि(न्ये)तरजातीनां [च] विकल्पत्रय (यं) पूर्ववत् । एवमुक्तं लुपाणीं कुर्यात्तु शिल्पि (ल्प ) वित्तमः ॥ १०६ ॥ मध्ये पायतं मानं कर्ण विस्तारमिष्यते ।
मध्यादि चान्यथा सर्व विकल्पं तद्विभाजितम् ॥ ११० ॥ तत्तत्कर्णस्य मानेन विशालं स्यात्पूर्ववत् । तत्तत्कर्णस्य मानेन लुपादीर्घ ( दैर्ध्य ) मुदीरितम् ॥ १११ ॥
तत्समं वा सपादं वा सार्धार्धकमेव वा ।
दीर्घत्वमालम्बनं लम्ब्य विस्तारस्य तु (च) निर्गमम् ॥ ११२ ॥ तस्य मानं यथाभागं युक्त्या तत्रैव योजयेत् । त्रिचतुष्पञ्चषणमात्रं लुपामूलविशालकम् ॥ ११३ ॥ समं वाथ त्रिपादं वा चार्ध (र्ध) वालम्बनान्तकम् । एकद्वित्र्यङ्गुलं वापि घनं सर्वाङ्गसंमतम् ॥ ११४ ॥ अन्यत्सर्वाङ्गविस्तारं यथायुक्तिवशान्न्यसेत् । एक द्वित्र्यवसानान्तं स्तम्भस्योपरि विन्यसेत् ॥ ११५ ॥ लुपां (पाया:) प्रागुक्तविस्तारं तत्तद्वंशाङ्घ्रिकान्तकम् । अधः पादस्य लुपाद्यैश्च तत्र दोषो न विद्यते ॥ ११६ ॥ कर्णात्कन्या (र्गा) वसानं स्यान्नवसूत्रं प्रसारयेत् । तत्सूत्रादधादेशे कुनिं ज्ञात्वा पुरोर्ध्व (वर्ध) कं ॥ ११७ ॥ पाकुचिप्रदेशे तु चत्वा (तुः ) सूत्रावसानकम् । अर्धचन्द्रवदाकारं युक्त्या चन्द्रं यथेष्टकम् ॥ ११८ ॥ मूलादिवास (ज) नान्तं स्याच्छिद्रमेकं द्वयं तु वा । चन्द्रान्ते क्षेपणं युक्तं छिद्रं सूत्रादधो न्यसेत ॥ ११६ ॥
तच्छिद्रे वेत्रसंयुक्तं लुपाधारात्तु [ शिल्प ] वित्तमः । श्रेण्या मध्यलुपाः सर्वे (र्वा) लुपासंख्या यथेष्टका ॥ १२० ॥
१३५
220
224
228
232
236
240