________________
१२८
मानसारे
कुर्यान्तु शिल्पविद्द्द्वभिः क्षुद्रपश्वतले न्यसेत् ।
पत्रक पङ्किर (लै) कीश: (श) द्वा ( त्रयो ) दशांशे विशालके ॥ १३ ॥ तत्तु मध्यमं पातलं हयें (ए) व कारयेत् । ईशद्वादशकैकार्क मनुभागं तथैव च ॥ १४ ॥ एतद्भागविशालं तु श्रेष्ठं पञ्चतलं भवेत् ।
मर्कसैकार्कभागं तु मनुपश्वा(च) दशांशकम् ।। १५ ।। एतद्वै पूषके कुर्यात्तुद्रषट्तलहर्म्यकम् ।
कर्कशं मुनिं चांशं तिथिषोडशभागिकम् ॥ १६ ॥ षट्तलं मध्यमं प्रोक्तं कुर्याद्धर्म्यविशालके । त्रिचतुः (तुषु) पञ्चषट्सप्तैकाधिकं दशभागिकम् ।। १७ ।। श्रेष्ठं षट्तलमित्युक्तं यथा कुर्याद्विचक्षणः । चतुर्दशांशकं पञ्चदशांशं षोडशांशकम् ॥ १८ ॥ सप्तदशाष्टपङ्कयंशं क्षुद्रसप्ततलं तु वा । पथ्या (च) दशांशकं चैव षोडशांशकमेव वा ॥ १६ ॥ सप्ता(त) दशांशकं भागं चाष्टपङ्कंशभागिकम् । एतन्मध्यममाने तु कुर्यात्तु सप्तभूमिके ॥ २० ॥ विस्ताराष्टद्विभागं च तत्सप्तदशभागिकम् । तदष्टादशभागं स्यान्नन्दपङ्कुशमेव वा ।। २१ ।। श्रेष्ठं सप्ततलं प्रोक्तं कुर्यात्तत्र विचक्षणः ।
सप्ता (प्त) दशांशकं चैव विस्तारा ( रम) ष्टादशांशकम् ॥ २२ ॥ नवपङ्कांशकं चैव विशाले द्विदशांशकम् ।
क्षुद्रमष्टतलं ह्येवं हर्म्य कुर्यात्तु भागतः ॥ २३ ॥
नवमेव द्विभागं स्यान्नन्दपङ्कयंशकं तथा ।
विंशत्यां (त्यं)शक (शमेक) माधिक्यं भागं हर्म्यविशालके ॥ २४ ॥ मध्यमाष्टतलं कुर्याद्भागमान विमानके ।
नवाधिकदशांशं स्याद्विशतिश्चैकविंशतिः ।। २५ ।।
द्वाविंशतिश्व भागं च श्रेष्ठमष्टतलं तथा ।
विंशत्यंशं विशाले तु चैक (सैक) हस्तं तथैव च ।। २६ ।
[प्रध्यायः
28
82
36
40
44
48
52