________________
विमानलक्षणम्
१२७
विमानलक्षणम् विमानलक्षणं चैव संक्षेपाद्वक्ष्यतेऽधुना। तैतिलानां द्विजातीनां वर्णानां वासयोग्यकम ॥ १ ॥ एकभूमिविमानादिरविभूम्यवसानकम् । भक्तिसंख्या(ख्या) तदाकारं स्थ(स्तू )पिकाद्यैश्(दि) च लक्षणम ॥ २ ॥ लुपमानक्रमं सर्व स्तूपिकास्थापनं क्रमात् ।। ग्वानयद्भूतलं श्रेष्ठं पुरुषाजलिमात्रकम् ।। ३ ।। जलान्तं वा शिलान्तं वा पूरयेद्वालुकै लैः । हस्तिपादाकृति(ति) दारुस्तम्भेन[च] प्रहारयेत् ।। ४ ।। एवं दृढकरं(कृतं) चोर्ध्वं यथाशास्त्रं(हय) तु कारयेत् । एकभूमिविमाने तु चोक्तवत्करसंग्रहम् ॥ ५ ॥ एकभक्त्या द्विभक्त्या वा त्रिचतुष्पञ्चभागिकम् । षड्भागं षड्विधं प्रोक्तं क्षुद्रमेकतलं भवेत् ॥ ६॥ पञ्चषट्सप्तभागं स्यान्मध्यममेकतलं भवेत् । षट्सप्ताष्टविभागं स्यात् श्रेष्ठमेकतलं भवेत् ।। ७ ।। पञ्चषट्सप्तभक्त्या च क्षुद्रं च द्वितलं भवेत् । षट्सप्ताष्टभक्त्या च मध्यमं द्वितलेन(लमेव) च ॥८॥ सप्ताष्टनवभागं स्यादुत्तमं द्वितलं न्यसेत् । समाष्टभक्तिकं कुर्यात्तुद्रं च त्रितलं भवेत् ।।६।। नन्दपतवंश(शं) तेनैव मध्यमं त्रितलं भवेत् । एकपङ्कयर्कभागेन चोत्तमं त्रितलं भवेत् ।। १० ।। प्रष्टनन्ददशांशं स्यात्तुद्रमाने चतुस्तले। नन्दपतिरुद्रभागं स्यान्मध्यमे च चतुस्तले ॥ ११ ॥ पतिरे तेय) कादशार्क स्याद्भागं श्रेष्ठे चतुतले ।। नन्दपङ्गेयकादशार्कभागं सद्मविशालकम् ॥ १२ ॥