________________
१०२
मानसारे
प्रध्याय:
220
224
228
232
अथवा बक्रतुङ्गं स्यादेकदण्डेन कारयेत् । पालिकस्यो(कमु)क्तवत्कुर्याद्यथाशाभ तु कारयेत् ॥ १०८॥ अस्योद्धेऽर्धन दण्डेन कुड्मलाकृति(ति) न्यसेत् । तदा स्यानिर्गम भावं कुम्भान्तं लंभ(लम्ब)येत् पुनः ॥ १० ॥ कुम्भमध्ये रत्नबन्धं वस्त्रनिप्यं च विन्यसेत् । सर्वालङ्कारसंयुक्त पादमूले तु विन्यसेत् ॥ ११० ॥ तदास्यं निर्गम भावं कुम्भान्तं नासिकं भवेत् । अथवा नासिकां त्यक्ता परस्योपरि न्यसेत् ॥१११ ॥ पादस्योर्धे पाल्यन्तं पद्मवल्यादिभूषितम् । मूलपादविशालं वा तन्त्रिपाद विशालकम् ॥ ११२ ॥ एतत् कुम्भाङघ्रिकं प्रोक्तं चान्तराल च योजयेत् । कुर्याद्वहिःप्रदेशे तु मध्ये वा चान्तरालके ॥ ११३ ।। भित्तिमध्ये च कूटे च शिरोदेशे विशेषतः । विशालपजराद्यैश्च योजयेच्छिल्पि(ल्प)वित्तमः ॥ ११४ ॥
(स्तम्भलक्षणम्) तत्स्तम्भलक्षणं वक्ष्ये तुङ्गादीञ्चोक्तवन्नयेत् । मूलस्तम्भविशालेन त्रिपादं वार्धमेव वा ॥ ११५ ।। संयोगस्तम्भविस्तारं यन्मानोरम्य(म्य) मानयेत् । बोधिका(का) फलकान्तं च मूलदण्डेन मानयेत् ॥ ११६ ॥ पालिकायङ्ग सर्वेषामुपदण्डेन मानयेत् । बोधिकादीनि सर्वाङ्ग(नि) पूर्ववत्पारकल्पयेत् ॥ ११७ ॥ उपपादानि सर्वेषां पूर्वपादे तु योजयेत् । उपपादा(द) मूलपादान्तमुपदण्डसमन्तकम् ॥११८॥ तहण्डस्य त्रिपादं वा दण्डार्ध वाथवांशकम् । एकोपपादसंयुक्तं द्वित्र्युपपादेन सयुतम् ।। ११६ ॥ एवं क्रममिति प्रोक्तं मूले पद्मासनान्वितम् । वेदोपपाइसंयुक्तं ब्रह्मकान्तमी(मिती)रितम् ॥ १२०॥
236
240
244