________________
मानसारे हाणा नदशाकुर्यात्तत्तदाकारबद्भवेत् । त्रिचतुर्मात्रमारभ्य द्विद्वगङ्गुखविवर्धनात् ॥ १२ ॥ पचषडविंशमात्रान्तं द्वादशं विपुलं भवेत् । तद्विस्तारसमं वापि तदष्टांशोनमेव च ।। १३ ।। पञ्चाशोन(शेनोन)मेवं वा गर्भभाजनमु(स्यो)च्छयम् । एवं चतुर्विध(रंशोन) प्रोक्तं (स्याद्) दण्डमानेन वक्ष्यते ॥ १४ ॥ हर्म्यपादस्य विष्कम्भसमं मञ्जूषविस्तृतिः । बदष्टांशैकहीनं वा तत्रिपादं प्रकल्पयेत् ॥ १५ ॥ तुझं प्रागुक्तवत्कुर्याद्भित्ति(त)रातिमिहोच्यते । एकद्वित्रि(त्र)यमेवापि सर्वमिचिविशालकम् ॥ १६ ॥ तद्भित्तिभागमेकं वापि विधानं तदुच्छ्रयम् । मन्जूषोच्छु (छ्य)चतुर्भागं तत्तदेका(कमा)सनं भवेत् ॥ १०॥ सवयं चाधितुङ्गं तु स्यादेकांशं प्रस्तरान्वितम् । त्रिवर्गमण्डपाकारमद्भिःखा(पख)न्तं प्रविष्टके ॥ १८ ॥ पञ्चविंशतिकोष्ठं वा नवकोष्ठे(नव)कमेव च । एकांश कोष्ठभित्युच्छू धनं प्रागुक्तवन्नयेत् ॥ १६ ॥ उपपीठपदे देवान् कोष्ठ(ष्ठे) चोक्तक्रमं न्यसेत् । पूर्वान्हं च सदा ज्ञात्वा कारयेदधिवासनम् ॥ २० ॥ गन्धाक्षतैश्च पुष्पैश्च धूपदीपेन चार्चयत् । सकलीकरणं कुर्यात्पुण्याहं वाचयत्ततः ॥ २१ ॥ स्थिरवास्तुं ततो गच्छेत्प्रस्तरे तु पदैः सह।
(मन्त्रः ) हे वास्ता त्विह गर्भस्य वृद्धिं कुरु नमाम्यहम् ।। २२ ।। ब्रह्मादिदेवतानां च प्रो(त्वो)ङ्कारादिनमोऽन्तकम् । वचत्वनाममन्त्रेण म(चा)येद्वास्तुदेवताः ॥ २३ ॥