________________
JULY, 1904.]
RAMABHADRA-DIKSHITA AND THE SOUTHERN POETS.
193
End:
धातुवर्षे यदा यज्ञसेवार्थमहमागतः । श्रीमहाराजराजस्य मन्त्रिणरुयम्बकप्रभोः॥ महाराजस्तु मां प्रीत्या स्वसभायामवासयत् । भारतश्रवणाय रालिंदिवमुदारधीः ॥ यदा मासनयादूर्व प्राप्यानुज्ञां महीपतेः । गन्तुमिच्छामि च तदा धर्मशास्त्रनिबन्धने ॥ महाराजेन चाज्ञातो गौरीमायूरमागतः । तस्मिन्वर्षे वृश्चिकार्के धर्मशास्त्रसुधानिधेः ॥ एकेनैव मया पुनयुक्तेन शनकैः कृते । बुद्भिदण्डेन मथने रालिंदिवमनेकधा ।। अष्टभिर्लब्धवानस्मि वत्सरैस्तत्फलं महत् । आचारनवनीतं तन्मृदु सर्वमनोहरम् ।। महाराजस्य दयया तत्संग्राह्यमभूद्भुवि । समाप्तं पञ्चदशभिः सहस्रन्थसङ्ख्यया ॥ प्रचारोऽस्य महाराजाधीन एव हि सर्वथा । अहमप्पाध्वरी नाम्ना महाराजेन सादरम् ।। दत्तां महीं समादाय * * * * दिसंभृतैः । धान्यः परंपरासिद्धे ग्रामे कृष्या समार्जितैः ।। कर्वन्कडुम्बभरणं पुत्रपौत्रैः समावतः । श्रेयः प्रार्थयमानः सन्महाराजस्य सन्ततम् ॥ आयःदोषं सुखं वस्तुमिच्छाम्यग्निक्रियान्तिके। मनोरथो महानेष महाराजेन पूर्यताम् ॥ एकक्ष्मापतिपूर्वपुण्यसुकृतोत्कर्षेण लब्धोदयो दीपाम्बोदरवासभाग्यमहिमप्रख्यातपुण्योच्चयः । श्रीशाहक्षितिराट् प्रशास्तु वसुधामाचन्द्रमप्पाध्वरी यहत्तानबलेन धर्मविषयं शास्त्रं समग्रन्थयत् ॥ श्रीमच्चिदम्बरमखीन्द्रसुतेन वत्सवंशाम्बुराशिविधुना विधिशास्त्रमार्गे । सञ्चारनिर्मलधिया सकलार्थबोधमाचारसारनवनीतमिदं गृहीतम् ॥