________________
२२८ ]
[[મહામણિ ચિંતામણિ
woooomowomameroonomomerometeoromososmoveseoooooooooooooooooooooooooooooo
oooooooor
પૂ. આ. શ્રી વિજયદેવસૂરીશ્વરજી મ.ના પટ્ટધર
પૂ. આ. શ્રી વિજયહેમચંદ્રસૂરિજી મ. કૃત સંસ્કૃત-ગુજરાતી પદ્ય રચનાઓ
॥ श्री गौतमस्वामिस्तुतिः॥ स्वर्णपद्मासने राजमानं नुवे, योगिराजं सुरेन्द्राय॑पादं; सर्वलब्ध्याकरं वरगुणांभोनिधिं, श्री वसुभूतिपृथ्व्यंगजातम् .. ॥१॥ सर्वकार्यं नृणां यदभिधानाद् द्रुतं, सिद्ध्यतीष्टं च नो विघ्नलेश; वर्धमानप्रभोराद्यगणभृद्वरं, बीजमतिशालिनं श्रीन्द्रभूतिम् ॥२॥ ॥ सकललब्धिनिधान श्रीगौतमस्वाम्यष्टकम् ॥
(ललित-वृत्तम्) महिमशालिनं विश्वतारकं, गुणगणालयं गीतगौरवम् । सकल लब्धिभृद्योगिनं स्तुवे, गणधरोत्तमं गौतमप्रभुम् ||१|| चरमतीर्थकृत् पट्टभास्करो, मुनिततीडितः कामितप्रदः । सुरवरैर्नुतस्तेजसान्निधि विजयतेतरां गौतमेश्वरः
॥२॥ चरितमद्भुतं ते दयानिधे ? जडमतिः कथं स्तोतुमुत्सहे । तवकरांबुजाद् दीक्षिताः समे, मुनिवरा ययु-मुक्तिमन्दिरम् ॥३॥ भविकतायिनं मुक्तिदायिनं कुमतनाशिनं तत्त्वपायिनम् । पतितपावनं भाविराजिनं, प्रणिदधेऽन्वहं गौतमेश्वरम् ||४|| गणभृदग्रणीः श्रेयसां पदं, हितकरो नृणां पापनाशकः । विमलदर्शनः कर्मजित्वरो, विजयतेतराम् गौतमेश्वरः ॥५॥ नमनतस्त्वयि श्री गणाधिप!, सकलकल्मषं नश्यति ध्रुवम् । पवितनाम ते यत्र राजते, भवति तत्र नो विघ्नकल्पना ॥६।। गिरिवरे गतोऽष्टापदे भवान्, भगवतोऽर्चितुं स्वीयशक्तितः । अतुलसारवन् ! नाथ! ते गुणान्, गणयितुं क्षितौ केन पार्यते! ।।७।। तव पदाम्बुजे वन्दना सदा, भवतु मे प्रभो! योगिसत्तम । तव प्रभावतो मंगलावलि-मम दिने दिने देव! जायताम् ॥८॥
अष्टकं गौतमेशस्य, सर्व सिद्धिप्रदायकम् । रचितं हेमचन्द्रेण गुरुदेवांनिसेविना ।। विज्ञप्त्या निजशिष्यस्य, प्रद्युम्नारव्यमुने र्मया। पारेखचीमनभ्रातुः, पाठाय लिखिता स्तुतिः।।
Homsaasoomsomewomaaaaaaaaaaaaaaawoooooooooooooooooooooooooooomopen