________________
શ્રી ગુરુ ગૌતમસ્વામી ]
[ ૨૧૭
PORGOURQOPPeopoooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooon
त्रिपदीग्रहणोद्यतसद्धिषणः, कृतवीरपदार्थसुनिर्वचनः। वचनामृतहर्षितमर्त्यगणो, गुरुसौख्यभराय भव त्वमिह ॥२।। (तोटकवृत्तम्) यन्नाममंत्रस्मरणेन सर्वं, शशाम विधुच्चपलायुषां नः। दुःखातिगं कर्म पुरानुभूतं, बद्धं निधत्तं भवकोटिभूतम् ॥३॥ (उपजातिः) सज्ज्ञानसद्दर्शन-सच्चरित्र-रूपं हि रत्नत्रयमत्र पुष्टम् । यदेहगेहेऽग्रिममुद्बभूव, ध्वस्तादिकान्तं सुरकोटिशस्यम् ॥४॥ (उपजातिः) विमलगुणाकर! गौतम ! भिक्षालब्धि ददस्व सकलानाम्। साधूनां प्रतिदिवसं, स्तुतो मयेति प्रकारेण
॥५॥ (आर्या)
***
00000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
श्री गौतम छंद
(उपजाति छंद) श्री वीर वाक्यात् प्रगतः प्रभाते, यो देवशर्मप्रतिबोधनाय। प्रातः समापत् किल केवलित्वं तं गौतमं भव्यजना भजध्वं ।। दीपोत्सवे योजितपाणिपद्मः, सुरासुरेशैर्विनयावननैः । यदंध्रिपद्मं प्रणतं प्रसद्य, तं गौतमं भव्यजना भजध्वं ।। यस्य प्रभावाद् वरहस्तसिद्धेः, प्राप्नोत्यवश्यं स्वविनेयवर्गः। कैवल्यज्ञानमनन्य शक्तेः तं गौतमं भव्यजना भजध्वं ॥ यन्नाम जापो जगति प्रतीतोऽभीष्टार्थसिद्धिं सकलां प्रदत्ते । कल्पद्रु कल्पं प्रणमद्जनानां, तं गौतमं भव्यजना भजध्वं ॥ इत्थं स्तुतो वीरजिनेंद्रशिष्यः, मुख्यो मया कोविदवृंदवन्द्यः । दीपालिकाया दिवसे गणीन्द्रः, संघेऽनघे मंगलमातनोतु ॥
'श्री गौतमस्वामी अष्टकम्'
उपजाति छंद करियो येन समग्रनष्टाः, सूर्योपमोऽज्ञानतमोविनाशे। तं गौतमस्वामी गुरु सुशांतं, नमामि नित्यं भवतारणाय ॥ भव्यारविंदेषु पतंगतुल्यान्, संसारदावानलनूतनाब्दान् । षड्जीवकायप्रतिपालनार्थान्, तान् गौतमाधीश गुरुन् नमामि ॥ मनोऽर्तिहरॆ शिव सौख्यदात्रे, भवाब्धिमज्जज्जन सार्थपात्रे । संमोहवल्लीवनराजिदात्रे, श्री गौतमाधीश! नमोऽस्तु तुभ्यम् । दुष्टि कर्मा रि-बलं जिगाय, यो हेलया मुक्तिसुसाधनाय । अतुल्ययोघं च जगत्रयेशम्, श्री गौतमं श्रेष्ठगुरुं नमामि ॥
3000000000000000000000000000000000000000