________________
શ્રી ગુરુ ગૌતમસ્વામી ]
[ २१५
000000oooooooooo wwwwwwwwwwwww
जया-जयन्ती विजयापराजिता - नन्दासुभद्राप्रमुखः सुरीजनः । प्रतिक्षणोज्जागरभूरिविभ्रमः श्रीगौतमं गायति गाढगौरवः
||७|| मानुषोत्तरगिरेः शिरःस्थिता, दोःसहस्रसुभगा महाप्रभा। गीतगौतमगुणा त्रिविष्टप - स्वामिनी शिवशतं दधातु मे
||८|| यक्षषोडशसहस्रनायको, दिव्यविंशतिभुजो महाबलः । द्वादशांगसमयाधिदेवता, गौतमस्मृतिजुषां शिवंकरः
||६|| ईशाननाथेन समं शतक्रतुः सनत्कुमाराधिपतिः सुरान्वितः। श्रीब्रह्मलोकाधिपतिश्च सेवते, सगौतमं मन्त्रवरं पदे पदे ॥१०॥ अष्टनागकुलनायको मणि - प्रोल्लसत्फणसहस्रभासुरः। गौतमाय धरणः कृतांजलिमन्त्रराजसहिताय वन्दते
||११॥ रोहिणीप्रभृतयः सुरांगना, वासवा अपि परे सदाश्रवाः । गौतमं मनसि यक्षयक्षिणी श्रेणयोऽपि दधती मुनीश्वरम् ।।१२।। सज्जलान्नधनभोगधृतीनां, लब्धिरद्भुततमेह भवे स्यात्। गौतमस्मरणतः परलोके, भूर्भुवः स्वरपवर्गसुखानि
||१३|| आँ क्रौं श्रीं ह्रीं मन्त्रतो ध्यानकाले, पार्धेकृत्वा प्रांजलिः सर्वदेवान् । कायोत्सर्गेधूपकर्पूरवासैः, पूजां कुर्यात् सर्वदा ब्रह्मचारी ॥१४।। जितेन्द्रियः स्वल्पजलाभिषेकवान्, शुद्धांबरो गुप्तिसमित्यलंकृतः । श्री इन्द्रभूतरूपवैणवं गुणान्, स्मरन्नरः स्याच्छुतसिन्धुपारगः ।।१५।। तं श्रयन्ति पुरुषार्थसिद्धयो, भूष्यते विशदसाहसेन सः। गौतमः प्रणयिभुक्तिमुक्तिदो, यस्य भाविविभवस्य नाथते । ।।१६।।
सूरिमंत्रगर्भित श्रीगौतमस्वामिस्तवनम् गौतमस्वामिमंत्रोऽयं, सम्यगाराधितो नरैः ।
चिंतामणिरिवाजस्रं, चिंतितार्थप्रसाधकः ॥१॥ જે માણસો વડે ગૌતમસ્વામીનો મંત્ર આરાધ્યો છે, સારી રીતથી તે માણસોને શ્રી ચિંતામણિ રત્નની માફક તરત ફળને આપનાર થાય છે અને ઈચ્છિત વસ્તુને મેળવે છે.
दारिद्य-कंद-नाशाय, विनव्रात-विनाशिने ।
नमोऽस्तु मंत्रराजाय, विश्व-लक्ष्मी-प्रदायिने ॥२॥ દાયિના સમુદાયને નાશ કરવામાં અનેક પ્રકારના અંતરાયને પણ નાશ કરવા માટે સમર્થ | છે તેવા મંત્રરાજ સકલ લક્ષ્મીને આપનાર તેમને મારા નમસ્કાર થાઓ.