________________
२१२]
प्रथमगणधरोऽयं भाग्यसौभाग्यसंप
न्निधिरुचितमिहास्तु स्वस्तिभाजो भवेयुः । सुभविकनिकरा यद्दर्शनेनैव शश्वद्
वचनसुरसपानात् किं पुनः सिद्धिसिद्धी
जनन-मरण - वेला - लोल - कल्लोल माला
हति-विरति-भृतानामात्मभान्तावतास्तु । भयदभवपयोधेर्भीमरो व्याप्तलोकः,
प्रथम गणपतेः सद्दर्शनं स्यान्न यावत्
तदुचितमिहयच्छ्री-गौतमस्याभिधाने,
निवसति जगतीस्था-शेषसंपत्प्रभुत्वम् । कथमनुदिनमेतन्-मन्त्रजापप्रभावा
च्छ्रयति सकललक्ष्मीरन्यथा भक्तभव्यात् गणधरवरलब्धिविश्व विश्वोपकारा,
जगति जयतु यस्या द्वादशांगी प्रसूतिः । तदनु सकलदेशो-द्धारसत्संयमश्रीः
प्रभवति भविकानां मोक्षलक्ष्मीस्तु यस्याः
चरमजिनपसेवालब्धलब्धिप्रभाव
चरणकरणतत्वा-रागनैकान्तचित्तः।
प्रथयति गणराजः शुद्धधर्मप्रकाशम्
त्रिभुवनजननित्या-नन्दिसद्देशनाभिः
सेवते गणधरक्रमपंकजं,
यः सुधीः सरसभक्तिभावितः ।
ऐहिकं सकलकामित्तं फलं,
प्रेत्य चापि लभते तथैव तत्
गौतमं सुभगमेव गोत्रकं,
यत्र गौतमगणेश्वरोऽजनि ।
वीरशासनमद्भुतं बभौ,
यत्र गौतम गुरुर्गुरोः पदे
***
भक्ति-व्यक्ति विशेषनुन्नमनसा श्रीगौतमः सत्तमः,
स्तुत्यैवं प्रणुतस्त्रिलोकमहितः श्रीद्वादशांगीगुरुः । सौभाग्याद्भुतभाग्यहर्ष विनयश्रीसूरितत्वश्रिया
[ મહામણિ ચિંતામણિ
11E11
119011
119911
119211
119311
119811
119411
निष्णातस्तनुतां ममोरुमहिमां श्री धर्महंसोज्ज्वलाम् ॥१६॥
***