________________
जइ - जीयकप्पो अत्र शिष्यः प्रेरयति - रागद्वेषिणो यूयं यत् स्वगणे स्तोकं छेदप्रायश्चित्तं दत्तम्, परगणे तु प्रभूतम् । एवं स्वगणे भवतां रागः, परगणे द्वेषः । गुरुराह- इदं छेदनानात्वं कुर्वतो वयं न रागद्वेषिणः । तथा चात्र दृष्टान्तः - एग गिहिणो चउरो भज्जाओ । ताओ अ तेण कम्हि एगे अवराहे कए पंतावित्ता नीहरह मम गिहाउत्ति निच्छूढा । तत्थेगा कम्हिइ परघरंमि गया । बिइआ कुलघरं । तईआ भत्तुणो एगसरीरो वयंसो त्ति तस्स घरं गया । उत्थ निच्छुभंती वि बारसाहाए लग्गा । हम्ममाणि वि न गच्छइ । भणति अ कओ वच्चामि ? नत्थि मे अन्नो गइविसओ । जइ वि मारेसि तहावि तुमं चेव गई सरणं तत्थेव टिआ । तओ तुट्टेण चउत्थी घरसामिणी कया । तइआए घाडि घरं जंतीए सो चेव अणुवत्तिओ । विगयरोसेण खरंटिआ आणिआ य । बिइआए कुलघरं जंतीए पिउगिहबलं गहिअं गाढतरं रुट्टेण अन्नेहिं भणिए विगयरोसेण खरंटिआ दंडिआ य । दूरनट्ट त्ति न ताए किंचि पओअणं महंतेण वा पच्छित्तदंडेण दंडिउं आणिज्जइ । एवं उवसंहारो - परघरसंठाणीआ उसन्ना । कुलघरसंठाणीआ अन्नसंभोइआ घाडिअसमा संभोइआ । अनिग्गमे सघरसमो सगच्छो जाव दूरतरं ताव महंततरो दंडो भवइ । एवमादिकोऽधिकरणविषयो वाच्यविस्तरो निशीथादितः स्वयमवसेयो विस्तरप्रियैः । । ७७ ।। अथाधिकरणादिदोषैर्गणान्निर्गत्य यो भिक्षुरूपसम्पदनार्थं समागतः स्यात् स परिहरणीय इति दर्शयतिअहिगरणविगइजोगे पडिणीए थद्धलुद्धनिद्धम्मे ।
अलस अणुबद्धरोसे सच्छंदमई पयहिअव्वो ।। ७८ ।। (नि० भा० ६३२७, व्य०सू० २४८ ) व्याख्या - यदि स उपसम्पद्यमानः साधुः साधुभिर्गृहिभिर्वा सहाधिकरणं कृत्वा स्वस्थानान्निर्गतः । विगई ' त्ति विकृतिलाम्पट्यात् । जोग' त्ति योगोद्वहन भीरुतया । षडिणीए' त्ति प्रत्यनीकोऽत्र मे साधुरितिबुद्ध्या । तथा थद्धलुद्ध' इत्यादि । स्तब्ध इति वा, लुब्ध इति वा, निर्द्धर्मा इति वा, अलस इति वा, अनुबद्धवैर इति वा, स्वच्छन्दमतिरिति वा विनिर्गतस्ततस्तस्य निर्गमनमशुद्धमिति कृत्वा पयहिअब्बो' त्ति । परिहर्त्तव्यः । नन्वधिकरणादिदोषतो विनिर्गतास्ते कथमवसीयन्ते ? उच्यते - तथाविधतदुक्तिवशात् । तथाहि - विकृतिदोषविनिर्गतः पृष्टोऽपृष्टो वा वक्ति-स आचार्यो विकृतिं - घृतादिकां ग्रहीतुं न ददाति । तथा योगवाहिभिर्योगोत्तीर्णैः कायोत्सर्गकरणों गृहीतायां विकृतावन्यैश्च भुक्तायामपि या उद्धरिता विकृतिस्तामपि नानुजानाति । किंच भगवन् ! नवेक्षुतुल्यो मम देहो । यथा स इक्षुः पानीयेन विना शुष्यति तथा ममापि देहो विकृतिं विना सीदति । अन्यच्चाहं स्वभावेन दुर्बलः, न विकृतिमन्तरेण बलिको भवामि । तथा सर्वदैव विकृत्या भावितदेहस्ततस्तद्भावितस्य सतो ममेदानीं तस्या
A. वयस्यगृहं ।