________________
जइ - जीयकप्पो दिनानि यथाक्रमं करोति, परतस्तु परिहापयति । पञ्चचत्वारिंशद्दिवसानन्तरं चोपाध्यायस्य दशकच्छेदः । आचार्यस्तथैवोपाध्यायमपि चतुर्भिश्चतुर्भिर्मासैर्भक्तार्थादीनि परिहापयन् संवत्सरं सारयति । आचार्यस्य द्वौ पक्षो दिवसीकृतौ त्रिंशदिवसा भवन्ति । ततश्चतुर्धा विभक्ता चतुर्थभागे चार्डोष्टमा दिवसा भवन्ति। तत्र गच्छ आचार्येण सहार्द्धाष्टमानि दिनानि भक्तार्थं करोति । एवं स्वाध्यायवन्दनालापानपि यथाक्रममर्द्धाष्टमैर्दिवसैः प्रत्येकं हापयति, ततः परं गच्छेन चतुर्भिरपि भक्तार्थादिभिः पदैर्विवर्जित आचार्यस्तत आचार्यस्य पञ्चदशकच्छेदो भवति । अत्राह-ननु सदृशापराधेऽप्याचार्योपाध्यायभिक्षूणां कथं विषमं प्रायश्चित्तं प्रदीयते ? उच्यतेकुमारदृष्टान्तोऽत्रावगन्तव्यः । स चाऽयम्-एगस्स रण्णो तिण्णि पुत्ता जिट्ठो मज्झिमो कणिट्टो । तेहि अ तिहिं वि सामत्थिअं पिअरं मारित्ता रज्जं तिहा विभयामो । तं च रण्णा नायं । तत्थ जिट्ठो जुवराया एस पहाणवत्थुत्ति काउं किमेरिसं अज्झवसति ? त्ति तस्स भोगहरण-बंधणताडणादिआ सब्बे दंडप्पगारा कया । मज्झिमो एस अपहाणोत्ति काउं तस्स भोगहरणं न कयं बंधवहखिंसाइआ कया । अव्वत्तो कणिट्ठो एएहिं विआरिउत्ति काउं कण्णचवेटयदंडो खिंसा दंडो अकओ, न भोगहरणबंधणदंडा कया । अयमर्थोपनयो-यथा सदृशेऽप्यपराधे युवराजस्य भोगहरणं बन्धनादिको महान् दण्डः कृतः । मध्यमस्य बन्धवधादिको, न भोगहरणम्। कनिष्ठस्य कर्णामोटनादिकः, न भोगहरणादिकः । तथा लोकोत्तरेऽप्युत्कृष्टमध्यमजघन्येषु पुरुषवस्तुषु बृहत्तमो लघुर्लघुतरश्च यथाक्रमं दण्डः क्रियते । यतः प्रमाणभूते पुरुषे अक्रियासु वर्तमाने अप्रत्ययादयो दोषा भवन्ति । अथ भिक्षुरुपाध्याय आचार्यो वा यदा स्वगच्छेन भक्तार्थादिभिश्चतुर्भिः पदैर्वर्जितस्तदा परगणं सङ्क्रामति । ततस्तस्य परगणाचार्यो वन्दनालापाभ्यां द्वाभ्यां पदाभ्यां सम्भुआनः स्वाध्यायादिभिः पदैर्दिने दिने सारणां तथैव वर्षं यावत्करोति । परगणे चानुपशाम्यतो भिक्षोः प्रतिदिनं दशकच्छेदः । उपाध्यायस्य पञ्चदशकच्छेदः । आचार्यस्य विंशच्छेदः । परगणे अन्यसाम्भोगिकेषु पुनः सङ्क्रान्तस्य भिक्षोरनुपशाम्यतः पञ्चदशकच्छेदः । उपाध्यायस्य विंशच्छेदः। आचार्यस्य पञ्चविंशच्छेदः । अवसन्नेषु च सङ्क्रान्तस्य भिक्षोर्विंशच्छेदः । उपाध्यायस्य पञ्चविंशच्छेदः । आचार्यस्य त्रिंशद्रात्रिंदिवच्छेदः।
स्वगणे | परगणे साम्भो० परगणे अन्य० । अवसन्नेषु
भिक्षोः
१०
१५
२०
उपा०
| १०
१५
२०
२५
आ०
| १५
२०
२५
३०