________________
इ-जीयकप्पो
ज्ञेयमित्यर्थः । इदमत्र गाथान्ते यन्त्रकस्य पञ्चम्या दीर्घपङ्क्तेः पश्चिमानुपूर्व्या तपो गृहीतम् । एतदीयश्च तपोविशेषः सर्वोऽपि यन्त्रकेण स्पष्टीभवति । ततस्तस्यायं लिखनविधिः कथ्यते इह दैर्घ्येण पङ्क्तिरचनायां त्रयोदश गृहाणि स्थाप्यन्ते, पृथुत्वेन चाद्यपङ्क्तौ पञ्चदश गृहाणि । द्वितीयतृतीयपङ्क्त्योश्चतुर्दश । चतुर्थपञ्चमपङ्क्त्योस्त्रयोदश । षष्ठसप्तमपङ्क्त्योर्द्वादश । अष्टमनवमपङ्क्त्योरेकादश । दशमैकादशपङ्क्त्योर्दश । द्वादशत्रयोदशपङ्क्त्योर्नवगृहाणीति । अत्र चाद्यायाः पृथुपङ्क्तेरुपरि निरपेक्षः स्थाप्यते । द्वितीयाया उपर्याचार्यः कृतकरणः । तृतीयाया आचार्योऽकृतकरणः । चतुर्थ्या उपाध्यायः कृतकरणः । पञ्चम्या उपाध्यायोऽकृतकरणः । षष्ठ्या गीतार्थः स्थिरः कृतकरणभिक्षुः । सप्तम्या गीतार्थः स्थिरोऽकृतकरणभिक्षुः । अष्टम्या गीतार्थोऽस्थिरः कृतकरणभिक्षुः । नवम्या गीतार्थाऽस्थिरोऽकृतकरणभिक्षुः । दशम्या अगीतार्थः स्थिरः कृतकरणः । एकादश्या अगीतार्थः स्थिरोऽकृतकरणः । द्वादश्या अगीतार्थोऽस्थिरः कृतकरणः । त्रयोदश्या उपरि अगीतार्थोऽस्थिरोऽकृतकरणभिक्षुरिति स्थापयित्वा पृथुत्वेन प्रथमायां पङ्क्तौ निरपेक्षस्याधो गृहद्वये शून्यं स्थाप्यं, यतस्तयोः पाराञ्चिकानवस्थाप्ये भवतः, ते च जिनकल्पिकस्य न सम्भवतः । तस्य हि स्वभावेनैव निरपेक्षत्वात् । अथ तयोः शून्ययोरधस्त्रयोदशसु गृहेषु मूल - छेद - षड्गुरु — षड्लघु चतुर्गुरु- चतुर्लघु - मासगुरु - मासलघु - भिन्नमास - विंशतिक - पञ्चदशक - दशक - पञ्चकानि स्थाप्यन्ते । द्वितीयायां पङ्क्तौ पाराञ्चिकादीनि दशकान्तानि । तृतीयायामनवस्थाप्यादीनि पञ्चकान्तानि । चतुर्थ्यामनवस्थाप्यादीनि दशकान्तानि । पञ्चम्यां मूलादीनि पञ्चकान्तानि । षष्ठ्यां मूलादीनि दशकान्तानि । सप्तम्यां छेदादीनि पञ्चकान्तानि । अष्टम्यां छेदादीनि दशकान्तानि । नवम्यां षड्गुर्वादीनि पञ्चकान्तानि । दशम्यां षड्गुर्वादीनि दशकान्तानि । एकादश्यां षड्लघ्वादीनि पञ्चकान्तानि । द्वादश्यां षड्लघ्वादीनि दशकान्तानि । त्रयोदश्यां चतुर्गुर्वादीनि पञ्चकान्तानि स्थाप्यन्ते । अत्र चैवं भावना - यत्रापराधे कृतकरणाचार्यस्य पाराञ्चिकं तत्रैवापराधे अकृतकरणाचार्यादीनां दीर्घपङक्तिक्रमेणानवस्थाप्यादीनि प्रायश्चित्तानि भवन्ति । तथा यत्राऽपराधे कृतकरणाचार्यस्यानवस्थाप्यं तत्रैवापराशेषाणां तथैव क्रमेण प्रायश्चित्तानीत्येवं सर्वदीर्घपङ्क्तिषु भावना करणीया । स्थापना चैवमत्रावसेया । एतत्पुरुषविभागेन श्रुतव्यवहारतो जीतकल्पयन्त्रम् ।। २५०।। सम्प्रति प्रतिसेवनामाह
आउट्टिआइ दप्पप्पमायकप्पेहिं वा निसेविज्जा ।
दव्वं खित्तं कालं भावं वा सेवओ पुरिसो । । २५१।।
व्याख्या–आकुट्टिकया उपेत्य सावद्यकरणोत्साहात्मिकया, दर्पप्रमादकल्पैर्वा, दर्पो धावनडेपनवल्गनादिकः हास्यजनकवचनादिकं दर्परूपो वा, प्रमादो दिवा रात्रौ वा प्रतिलेखनाप्रमार्जनाद्यनुपयुक्तता । कल्पः कारणे दर्शनादिचतुर्विंशतिरूपे सति गीतार्थस्य कृतयोगिन उपयुक्तस्य यतनया आधाकर्माद्यादानरूपः । तैरेतैश्चतुर्भिः प्रतिसेवनारूपैरासेवकः पुरुषो निषेवेत प्रतिसेवेत । द्रव्यम् आहारादिकं किञ्चिदशुद्धमप्याददीत । क्षेत्रं