________________
जइ-जीयकप्पो
राजा नृपस्तयोः पिण्डो भक्तादिरूपः शय्यातरपिण्डो राजपिण्डश्च । इहौद्देशिकादीनां त्रयाणामपि परिहारोऽवसेयः । कृतिकर्म ज्येष्ठानुक्रमेण वन्दनदानम् । व्रतानि पञ्च महाव्रतानि । ज्येष्ठो वर्षशतदीक्षिताया अपि साध्या अद्यतन दीक्षितोऽपि साधुर्गरियान् । प्रतिक्रमणं प्रतीतम् । मासो मासकल्पः । परिः सर्वथा वसनमेकत्र निवासो निरुक्तिवशात् पर्युषणा । इत्येतस्मिन् दशविधे कल्पे स्थिताः प्रथमचरमजिनसाधवस्ते आदयो अवयवभूता येषां ते कल्पस्थितादयः कल्पस्थितपरिणतकृतयोगितरमाणाख्याः । तत्र कल्पस्थिताः कथिता एव । परिणताः परिणतिपरिपाकमापन्नं जीवेन सह प्राप्तैकीभावं चारित्रं येषां ते । कृतयोगिनः चतुर्थषष्ठाष्टमादितपोभिः परिकर्मितशरीराः । सरमाण' त्ति । शकेश्चयतरतीरपारा' इत्यनेन प्राकृतलक्षणसूत्रेण शक्लृ' धातोस्तरादेशे कृते शक्नुवानाः शक्तितुलनां कुर्वाणा इत्यर्थः । ये एते चत्वारः सेतराः सप्रतिपक्षाः समाख्याताः कथिताः । कल्पस्थितादिभ्य इतरे अकल्पस्थिताऽपरिणताऽकृतयोगाऽतरमाणाख्याः । तत्र अकल्पस्थिता मध्यमद्वाविंशतिजिनसाधवो महाविदेहजाश्च । एते हि दशविधस्थितिकल्पमध्यात् शय्यातरपिण्डाऽनादानचतुर्यामपुरुषज्येष्ठत्वकृतिकर्मकरणाख्येषु चतुर्षु स्थिताः शेषेषु षट्सु पुनरस्थिताः । ते ह्येतानि षट् स्थानानि गुणानुलोम्यमालोच्य कदाचित् कानिचित् कुर्वन्ति वा न वेति । अपरिणतादयस्तु परिणतादिविपरीताः । साविक्खेअर भेआदओ अ जे ' ( उपरितना गु. वि. २ / ३३० ) इति । जे इति पादपूरणे। कल्पस्थिताकल्पस्थितादयोऽष्टावपि द्विविधाः । सापेक्षा गच्छवासिनो निरपेक्षा जिनकल्पिकादयः । साण पुरिसाण' (उपरितना गु.वि. २ / ३३०) इत्यग्रेतनगाथायां सम्बध्यते । सा चेयम् — जो जहसत्तो बहुतरगुणो व तस्साहिअंपि दिज्जाहि । हीणस्स हीणतरगं झोसिज्ज व सव्वहीणस्स ' ।। (गु०वि० २/३३१) तेषां पुरुषाणां कल्पस्थितादीनां सापेक्षनिरपेक्षभेदानां प्राग्गाथाद्वयोक्तगीतार्थादीनां च मध्यात् यो यथाशक्तः तपः कर्तुं क्षमः । बहुतरगुणो वा धृतिसंहननसम्पन्नः परिणतः कृतयोगी आत्मपरतरो वा भवेत् तस्याधिकमपि जीतोक्तादतिरिक्तमपि दद्यात् । हीनस्य धृतिसंहननादिरहितस्य हीनतरं जीतोक्तादल्पतरं दद्यात् । सर्वहीनस्य सामास्त्येनाक्षमस्य सर्वमपि तपः क्षपयेत् ड्रासयेत् न किमपि तस्य दद्यात् मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः । पुनः पुरुषविशेषानेवाह—
इथं पुण बहुतरगा भिक्खुण ठिय अकयकरणाणभिगया य । जं तेण जीअमट्ठमभत्तंतं निब्बिगाईअं' ।। अत्र पुनर्बहुतरा बहुभेदा आचार्योपाध्यायकृतकरणगीतार्थस्थिराद्या भिक्षवः साधवः इति । स्थिरा नाम ये चरकादिभिर्दर्शनतः परीषहोपसर्गैश्चरणतोऽतिकर्कशप्रायश्चित्तदानतः स्वभावतो वा न च्याव्यन्ते । अकृतकरणाः तपोभिरपरिकर्मितशरीराः । अनभिगताश्चागीतार्थाः चशब्दादस्थिराः । एतेषां च सर्वेषां यथार्हम्, तेन सूक्ष्मबादरातिचारादिना यज्जीतं जीतदानं तन्निर्विकृत्याद्यष्टमभक्तान्तं ज्ञेयमिति शेषः । यद्वा यन्त्रेणैतद्