________________
जइ - जीयकप्पो दुष्टसंसर्गतो बहुदोषाः, अदुष्टसंसर्गतश्च गुणा भवन्ति । अत्र च वनशुकोदाहरणं यथामाताप्येका पिताप्येको मम तस्य च पक्षिणः । अहं मुनिभिरानीतः स च नीतो गवाशनैः' ।। 'गवाशनानां स गिरः शृणोति अहं तु राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं संसर्गजा दोषगुणा भवन्ति' ।।
(नि०भा० ४९७६) अत्राऽयमपवादःअसिवे ओमोदरिए रायहुढे भये व गेलन्ने । अद्धाणरोहए वा दिज्जा अहवा पडिच्छिज्जा' ।।
(नि०भा० ४९७८) तथा योऽन्यतीर्थिकानां गृहस्थानां वा वस्त्रादि ददाति गृह्णाति वा, प्रातिहारिकं वा तेषां ददाति, तेषां समीपाद्वा प्रातिहारिकं गृह्णाति तस्य चतुर्लघु आज्ञादयश्च दोषाः । तथा चोक्तम्जे भिक्खू वत्थादी दिज्जा गिहि अहव अन्नतित्थीणं । पडिहारिगं व तेसिं पडिच्छए आणमाईणि' ।।
___ (नि०भा० ४९८०) दाने ग्रहणे च बहवो दोषाः प्रतीता एव । जुत्तमदाणमसीले' इत्यादिचालना तत् प्रत्यवस्थानं चाहारवद् वस्त्रेऽपि ज्ञातव्यम् । एवं पार्श्वस्थादीनामपि यो वस्त्रं ददाति तेषां हस्ताद्वा प्रातिहारिकं गृह्णाति तस्य चतुर्लघु । उक्तं चजे भिक्खू वत्थाई पासत्थोसन्ननिययवासीणं । दिज्जा अह पडिच्छे सो पावइ आणमादीणि' ।।
(नि०भा० ४९९०) इमो अववाओ-गिही अन्नतिथिओ वा सेहो पबईउकामो तस्स दिज्जइ । जत्थ सुलभं वत्थं तंमि विसए अंतरे वा असिवादि हुज्जा । एवमादिकारणेहिं तं विसयमगच्छंतो इह अलभंतो पासत्थादिवत्थं गिण्हिज्जा, दिज्जा वा तेसिं, अद्धाणे वा वच्चंता मुसिआ अन्नतो अलभंता पासत्थादिवत्थं गिण्हिज्जा । हिमदेसे वा सीताभिभूआ पाडिहारिअं गिण्हिज्जा, गिलाणस्स वा अत्थुर्रणादि गिण्हिज्जा एवमादि । तथाठिअकप्पमि दसविहे ठवणाकप्पे अ दुविहमण्णतरे । उत्तरगुणकप्पमि अ जो सरिकप्पो ससरिसो उ' ।।
(नि०भा० ५९३२, बृ०क० ६४४१) स्थितकल्पादिभिर्यस्तुल्यः स साधुः सदृशः । अथवा-संविग्नः सर्वोऽपि सदृशः साम्भोगिको वा सदृशः । अथवा कारणे पार्श्वस्था असाम्भोगिका अपि सदृशास्तेषां वसतिमध्ये विद्यमानं स्थानं यो न ददाति तस्य चतुर्लघु । अग्न्यादिना वसत्युपद्रवात् श्वापदादिभयादा शैक्षग्लानाद्यर्थं वा अध्वप्रपन्ना वा । एवमादिभिः कारणैर्ये आगतास्तेषां विद्यमानस्थानादाने चतुर्गुरु । सम्भोगव्युच्छित्तिः साधर्मिकवात्सल्यव्युच्छित्तिः प्रवचनव्युच्छित्तिर्वा भवति । तस्मात् साधुना साधुषु दृढसौहृदेन भाव्यम् । आपत्सु चात्मवदन्योऽपि रक्षणीयः । उक्तं च
A. म्लेच्छः। B. रोधकः = परचक्रेण नगरादिवेष्टनम् । C. आस्तरणम् = बिछानु' इति भाषायाम् ।