________________
सड्ड- जीयकप्पो
_ ...७९... 'चउगुरु' । इत्येतस्य पूर्वार्द्धप्रतिपादितस्य सर्वत्रापि योगादिति गाथार्थः ।।८८।। अथ यः श्राद्धादिः उपशामनशक्तौ क्रोधादीन् कुर्वन्तं पुमांसं नोपशामयति, तस्य किं प्रायश्चित्तम् ? इति प्रकरणागतं तत्प्रायश्चित्तविधिमाह
जो जम्हा उवसमई विझवणं तेण तस्स कायद् । जो उ उवेहं कुज्जा सो पावइ मासियं लहुयं ।।८९।।
(नि०भा० २७७९, बृ०क० २६९८) व्याख्याः-यो यस्मादुपशाम्यति निवृत्तानुशयो भवति, तेन तस्य 'विज्झवणं' विध्यापनं कर्त्तव्यं, प्रकरणात् क्रोधाग्नेरितिशेषः । शास्त्रान्तरेषु क्रोधादीनामग्न्याद्युपमानस्य सुप्रसिद्धत्वात् । 'जो उ उवेह' । मित्यादि। एवं सति यस्तु श्राद्धादिः तत्र शक्तोऽप्युपेक्षां कुर्यात् स प्राप्नोति मासिकं लघुकम्, तस्य लघुमासप्रायश्चित्तशोध्यं दूषणं भवतीति भावः ।।८९।।। अथ भोगोपभोगगुणव्रतेऽभक्ष्यनियमभङ्गविषयं प्रायश्चित्तमाह -
महु-पंचुंबरि-फल-फुल्लमाइवयभंगि गुरुग अन्नाए ।
नाए छगुरु अनियमे पिसिआसव-मक्खणे दसगं ।।९।। व्याख्या-मधु प्रतीतम्, पचोदुम्बरी- 'उदुम्बरवटप्लक्ष-काकोदुम्बरशाखिनाम्' । पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम्। ।। (योगशास्त्रम् ३-४२) इत्याद्युक्तरूपा । फलं वृन्ताकादि । पुष्पं मधूकादि। आदिशब्दादुषितद्विदलहिमविषादिपरिग्रहः । एतेषां व्रतस्य नियमस्य भङ्गे 'अन्नाए'' त्ति । अज्ञाते ऽनाभोगेन इत्यर्थो, जाते सति ‘गुरुग' त्ति । गुरुकाश्चतुर्गुरवः प्रायश्चित्तं भवतीति । 'नाए छग्गुरु'' त्ति । ज्ञाते आभोगे सति मधुप्रभृतीनां नियमभङ्गे षड्गुरु प्रायश्चित्तं भवति । अन्ये तु सामान्येन पञ्चोदुम्बरीफलपुष्पादिव्रतभङ्गे लघु, नमस्काराष्टशतं त्वेके । अपरे तु नियम विनाऽपि पञ्चोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षड्गुरुकमाहुः । 'अनियमे'' इत्यादि । यस्य ब्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते तस्य निर्विषयत्वात्कदाचिदकृतनियमस्यापि पिशितासवम्रक्षणानाम् । तत्र पिशितं मांसम्, आसवो मद्यं, म्रक्षणं नवनीतम् । एतेषां भक्षणे दशकं क्षपणानामिति गम्यत इति गाथार्थः ।।९०।।
___ अथ भोगोपभोगगुणव्रत एवानन्तकायप्रत्येकवनस्पतिनियमविषयं प्रायश्चित्तं किञ्चिन्मांसासवविषयं विशेषप्रायश्चित्तं चाह
चउगुरुणते चउलहु परित्तभोगे सचित्तवज्जिस्स ।
मंसासववयभंगे छग्गुरु चउगुरु अणाभोगे ।।९१।। व्याख्या – सचित्तवर्जकस्य श्राद्धादेः 'अणते। त्ति । अनन्तकायानां मूलकाकादीनां भक्षणे चतुर्गुरु प्रायश्चित्तं भवति । यदागमः