________________
सड्ड - जीयकप्पो तथा पादुकारूढः काष्ठादिमयोपानत्समारूढः । स हि भिक्षां प्रयच्छन् दुर्व्यवस्थितत्वात् कदाचित् पतति कीटिकादिसत्त्वविराधनां च करोतीत्यतोऽसावपि परिहियते ३३ । तथा - 'छक्कायवग्गहत्था समणट्ठा निक्खिवित्तु ते चेव । घटुंती गाहंती आरंभंती अ पडिसिद्धा'' ।।
(पिं०नि० ६११) एतस्या व्याख्या-षट्कायव्यग्रहस्ता षट्काययुक्तहस्ता । इह षट्कायव्यग्रहस्ता सोच्यते यस्या हस्ते सजीवलवणमुदकमग्निर्वायुपूरितो दृतिकः फलादिकं बीजपूरादि मत्स्यादयो वा विद्यन्ते । ततः सा श्रमणार्थं श्रमणभिक्षादानार्थमुत्थाय षट्कायान् भूम्यादौ निक्षिप्य पुनः तानेव घट्टयन्ती तत्सङ्घट्ट कुर्वाणा तानेव गाहमाना विलोडनेनेतस्ततो विक्षेपणेनाऽगाढं गाढं वा परितापयन्ती । तानेवारभमाणा च षट्कायोपद्रवकरमारम्भं कुर्वाणा । खननमर्दनादिना पृथिवीकायम्, मज्जनवस्वधावनादिनाऽप्कायम्, उल्मुकघट्टनादिनाऽग्निम्, अग्न्यादेः फूत्करणादिना मारुतम्, फलादेः कर्त्तनादिना वनस्पतिम्, स्फुरन्मत्स्यादिछेदनादिना त्रसकायं विराधयन्तीत्यर्थः। एवंविधा दात्री प्रतिषिद्धा । एतस्याः पार्थात् साधुभिर्भिक्षा न ग्राह्येत्यर्थः । एवंप्रकारः षष्ठः एषणादोषः ६ । उन्मित्रं नाम साधूनां दानयोग्यमोदनादि, अयोग्यं तु सचित्तं फलादि, मिश्रमामपक्वपृथुकादि, अचित्तं च तुषादि । एतानि ढ्यादीनि वस्तून्यनाभोगादिना मिश्रयित्वा गृहस्थो यद्ददाति । तत्र सचित्तेन मिश्रेण वा वस्तुना मिश्रीकृत्य यद्देयद्रव्यं ददाति तन्न कल्पते, अन्यत्र तु भजना ७ । अपरिणतं द्विधाद्रव्यापरिणतं भावापरिणतं च । तत्र द्रव्यापरिणतं यद्दातव्यद्रव्यमेवापरिणतमप्रासुकं भवति । भावो-ऽध्यवसायः । स च द्वयोः स्वामिनोर्मध्यादेकस्याऽपरिणतो दाने अनभिमुखोऽथवा भिक्षागतसाधुसङ्घाटकमध्यादेकतरस्य साधोर्मनसि एतल्लभ्यमानमशनादि निर्दोषमित्यध्यवसायः द्वितीयस्य तु न तथा । ततो भावेन दातृसत्केन ग्रहीतृसाधुसत्केन वाऽपरिणतं भावापरिणतम् ८ । लिप्तं नाम दधिक्षीरघृततैलतीमनप्रभृतिद्रव्यस्य लेपः करभाजनादौ लगति, तच्च कारणं विना न गृह्यते । यदाह - "घित्तव्बमलेवकडं लेवकडमाहु पच्छकम्माई । न य रसगेहिपसंगो न य भुत्ते बंभपीडा य' ।।
(पिं०नि० ६४९) ननु यद्येवं लेपकृद्ग्रहणे पश्चात्कर्मादयो दोषा भवन्ति ततस्तन्न गृह्यते, तर्हि मा कदाचनापि साधुर्भुङ्क्ताम् ? एवं हि सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराह-सर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावज्जीवं क्षपणं न कार्यम् । पुनः प्राह यदि सर्वकालं क्षपणं कर्तुमशक्तस्तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम् ? गुरुराह-यद्येवं तपःकुर्वन् संयमयोगान् कर्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा । पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु । एवमेकैकदिनहान्या