________________
__ सड- जीयकप्पो
|...११... इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम् । तत्राऽप्याचार्यादिक्रमेणैवालोचयितव्यम् । संविग्नाऽसाम्भोगिके गच्छे पञ्चानामभावे 'गीय' । त्ति । पदैकदेशे पदसमुदायोपचाराद् गीतार्थः । एतच्च विशेषणं पार्श्वस्थ-सारूप्य-पश्चात्कृतानां त्रयाणामपि योज्यम्।
ततश्चायमर्थ :- पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थे पार्श्वस्थे असति गीतार्थस्य सारूपिकस्य पार्श्वे संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः । तस्मिन्नपि गीतार्थसारूपिके असति पश्चात्कृतस्य गीतार्थस्य पार्श्वे आलोचयितव्यम्। पश्चात्कृतचरणस्य-परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्वे इतियावत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम् । अभ्युत्थापनं नाम वन्दनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा । अभ्युत्थिते वन्दनाप्रतीच्छनादिकं प्रति कृताभ्युपगमे प्रतिक्रान्तो भवेन्नान्यथा विनयमूलत्वाद्धर्मस्य । यदुक्तम् - 'विणओ सासणे मूल' (आ०नि० १२१६) मित्यादि । अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठन्ति तदा पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम्। पश्चात्कृतस्य इत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठति तदा तेनाऽन्यत्र गन्तव्यम् । येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम् । अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं ततस्तत्रैव तपो वहतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादौ गुणशीलादौ वा भगवान् मुनिसुव्रतस्वाम्यादिः श्रीवर्द्धमानस्वाम्यादि समवसृतस्तत्र तीर्थ करैर्गणधरैर्बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दीयमानानि तत्र तया देवतया दृष्टानि, ततस्तत्र गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र सम्यगाकम्पिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति । सा च प्रयच्छति यथार्ह प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दृष्टस्तीर्थकरस्ततः साऽष्टमेनाऽऽकम्पिता बूते महाविदेहे तीर्थंकरमापृच्छ्य समागच्छामि । ततः सा तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति । ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिविद्वानालोचयति । आलोच्य च स्वयमेव प्रायश्चित्तं प्रत्तिपद्यते । स च तथाप्रतिपद्यमानः शुद्ध एव, सूत्रोक्तविधिना प्रवृत्तेः । यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति ।