________________
सड्ढ- जीयकप्पो
...१०... इत्याद्युपदेशमालादिशास्त्रान्तरोक्तस्वरूपास्तेषां, कीदृशानाम् ? इत्याह-गीतार्थानां चशब्दस्यैवकारार्थत्वेन व्यवच्छेदफलत्वान्नागीतार्थानामन्तिके समीपे । ____ अयमर्थः- सप्तयोजनशत्यां द्वादशभिर्वर्षेच यदि तादृग्गुरुर्न प्राप्यते तदा संविग्नपाक्षिकाणामन्तिके आलोचयेन पुनरनालोचितातिचार एवावतिष्ठते, सशल्यस्यानाराधकत्वात् । गवेषणं कुर्वाणस्त्वन्तराऽपि मृत आराधक एव । यद्वक्ष्यति - 'आलोयणापरिणओ, सम्मं संपत्थितो गुरुसगासं । जइ अंतरा उ कालं, करेइ आराहओ सो उ।।।
(व्य०सू० २३२, नि०भा० ६३१२) अधिकपदमधिकाक्षरं वाऽधिकार्थसंसूचकं भवतीति 'संविग्गपक्खिआणं तु' इत्यत्र तुशब्दस्तदभावे पश्चात्कृत-सारूपि-प्रभृतीनां पार्श्वेऽप्यालोचनां दद्यादिति वक्ष्यमाणगाथोक्तश्लोकार्थक्रमसूचनार्थ इति गाथार्थः ।।१०।। अथ संविग्नपाक्षिकाद्यभावे किं कर्तव्यम् ? इत्याह -
तयभावम्मि आलोए सिद्धे काऊण माणसे ।
आराहणा ससल्लस्स जओ नत्थित्ति आगमे ।।११।। __व्याख्या-तेषां संविग्नपाक्षिकादीनामप्यभावेऽप्राप्तावालोचयेत् स्वापराधपदानि प्रकाशयेत् । किं कृत्वा ? इत्याह- सिद्धान् ज्ञानसङ्क्रान्ताशेषत्रिभुवनवस्तून् मानसे कृत्वा सिद्धसमक्षमित्यर्थः। कतः कारणादेवं विधीयते ? इत्याह-आराधना आ-सामस्त्येन राधना-ज्ञानादिमोक्षमार्गस्य संसिद्धिः-प्रतिपालना, सशल्यस्य अनालोचितातिचारजातस्य यतः कारणान्नास्ति न भवत्येवेत्यागमे, भणितमितिशेषः । इति गाथार्थः ।।११।।
अथ सुगुरूणामप्राप्तौ पूर्वगाथास्थतुशब्दसंसूचितेन येन क्रमेण येषामन्तिके आलोचना प्रदीयते तं क्रम सष्टयन्नाह
आयरियाइ सगच्छे संभोइय-इअरगीअपासत्थे । सारूवी-पच्छाकड-देवयपडिमा-अरिह-सिद्धे ।।१२।।
(आलोचनाग्रहण विधि प्रकरणम् ४८, द्र०स० ५०) व्याख्या-स्वगच्छे आचार्यादौ आचार्यसमीपे, आदिशब्दादुपाध्यायादीनां वा पार्श्वे आलोचना देया । इयमत्र भावना – प्रायश्चित्तस्थानमापन्नेन साधुना श्राद्धेन वा नियमतः प्रथमस्वकीयानामाचार्याणां समीपे आलोचयितव्यम् । तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनो वा समीपे आलोचना देया । अथ स्वगच्छे पञ्चानामप्यभावस्तर्हि किं कार्यम् ? इत्याह- 'संभोइय' त्ति । स्वगच्छे आचार्यदीनामभावेऽन्यस्मिन् साम्भोगिके एकसामाचार्यादिवति गन्तव्यम् । तत्राप्याचार्यादिक्रमेणालोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे 'इयर' त्ति । १. मूलगाथा - १० 'संविग्गपक्खिआणं तु' इति पदं द्रष्टव्यम् ।