________________
[श्रु०१। अ०१। उ०१। सू०१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् दीर्घत्वे इव, नित्यः शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोः अवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्, उक्तं च
*"कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥" [ महाभा० १/१/२४८-५०]
स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्ग्यो हिमोष्ण-वर्षाव्यवस्थाहेतुः क्षणलव-मुहूर्त-यामा-ऽहोरात्र-पक्ष-मासवयन-संवत्सर-युग-कल्प-पल्योपम-सागरोपमाऽवसर्पिण्यु-त्सर्पिणी-पुद्गलपरावर्ता-ऽतीता-ऽनागत-वर्तमान-सर्वाद्धाव्यवहाररूपः । द्वितीयविकल्पे तु कालाद् एव आत्मनो अस्तित्वमभ्युपेयम्, किन्तु अनित्यो असाविति विशेषोऽयं पूर्वविकल्पात् । तृतीयविकल्पे तु परत एव अस्तित्वमभ्युपगम्यते, कथं पुनः परतो अस्तित्वं आत्मनो अभ्युपेयते ? ननु एतत् प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदः, यथा- दीर्घत्वापेक्षया हुस्वत्वपरिच्छेदो हूस्वत्वापेक्षया च दीर्घत्वस्येति । एवमेव च अनात्मनः स्तम्भ-कुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते वस्तुनि आत्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपं तत् परतः एवावधार्यते, न स्वत इति । तुर्यविकल्पोऽपि प्राग्वद् इति चत्वारो विकल्पाः । तथा अन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिः ? इति, उच्यते- पदार्थानां अवश्यन्तया यद्यथाभवने प्रयोजककी नियतिः, उक्तं च
"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने,
नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥" [ इयं च मस्करिपरिवाण्मतानुसारिणी प्राय इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति । कः पुनरयं स्वभावः ? वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च
. "कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च ।
टि० १. ०पमोत्सर्पिण्यवसर्पिणी-पु० ख ग ।। २. ०द्धादिव्यव० ग घ ङ ।। ३. ०त्वमात्मनोऽभ्यु० घ ङ ।। ४. रिक्तवस्तु० ख ॥ ५. स्वतः । तुर्य० क च ।। ६. चतुर्थविकल्पेऽपि ग ॥ ७. ०णी । अपरे क ॥ ८. ०वः । कः कण्ट० ख ॥
वि०टिO # तुलना- काल: सृजति भूतानि कालः संहरते प्रजाः। संहरन्तं प्रजाः कालं कालः शमयते पुनः।। काल: सुप्तेषु जागर्ति कालो हिं दुरतिक्रमः। कालः सर्वेषु भूतेषु चरत्यविधृतः समः।। [महाभा०१/१/