________________
क्रियावादिनां भेदाः [श्रु०१। अ०१। उ०१। सू०१] तदन्तरेणापि सकलार्थोपपत्तेः नाऽपि अर्थापत्त्या । तदेवं प्रमाणपञ्चकातीतत्वात् षष्ठप्रमाणविषयत्वाद् अभाव एवात्मनः । प्रयोगश्चायम्- नास्ति आत्मा, प्रमाणपञ्चकविषयातीतत्वात् खरविषाणवत् । तदभावे च विशिष्टसञ्ज्ञाप्रतिषेधासम्भवेन अनुत्थानमेव सूत्रस्येति ।
___ एतत् सर्वमनुपासितगुरोः वचः, तथा हि- प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, संविन्निष्ठा हि विषयव्यवस्थितयः, घट-पटादीनामपि रूपादिगुणप्रत्यक्षत्वाद् एव अध्यक्षत्वमिति । मरणाभावप्रसङ्गात् च न भूतगुणः चैतन्यं आशङ्कनीयम्, तेषां सदा सन्निधानसम्भवात् इति । हेयोपादेयपरिहारोपादानप्रवृत्तेः च अनुमानेन परात्मनि सिद्धिः भवति, एवं अनयैव दिशा उपमानादिकमपि स्वधिया स्वविषये यथासम्भवमायोज्यम्, केवलं मौनीन्द्रेण अनेनैव आगमेन विशिष्टसञ्ज्ञानिषेधद्वारेण 'अहम्' इति च आत्मोल्लेखेन आत्मसद्भावः प्रतिपादितः, शेषागमानां च अनाप्तप्रणीतत्वाद् अप्रामाण्यमेव इति ।।
अत्र च अस्ति आत्मा इत्यनेन क्रियावादिनः सप्रभेदाः, नास्ति इत्यनेन च अक्रियावादिनः, एतदन्तःपातित्वात् चाज्ञानिका वैनयिकाश्च सप्रभेदा उपक्षिप्ताः । ते चामी
"असियसयं किरियाणं अकिरियवाईण होइ चुलसीई ।। अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥" [ सूत्रकृ०नि०११९]
तत्र जीवा-ऽजीवा-ऽऽ श्रव-बन्ध-पुण्य-पाप-संवर-निर्जरा-मोक्षाख्या नव पदार्थाः स्व-परभेदाभ्यां नित्या-ऽनित्यविकल्पद्वयेन च काल-नियति-स्वभावेश्वरा-ऽऽत्माश्रयणाद् अशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते च अस्तित्ववादिनो अभिधीयन्ते । इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः १, अस्ति जीवः स्वतोऽनित्यः कालत: २, अस्ति जीवः परतो नित्यः कालत: ३, अस्ति जीवः परतोऽनित्यः कालतः ४; एवं कालेने चत्वारो भेदा लब्धाः । एवं नियति-स्वभावेश्वरा-ऽऽत्मभिरपि एकैकेन चत्वारो विकल्पा लभ्यन्ते । एते च पञ्च चतुष्कका विंशतिः भवति । इयं च जीवपदार्थेन लब्धा । एवमजीवादयोऽपि अष्टौ प्रत्येकं विंशतिभेदा भवन्ति । ततश्च नव विंशतयः शतमशीत्युत्तरं भवति १८०। तत्र स्वत इति स्वेनैव रूपेण जीवो अस्ति, न परोपाध्यपेक्षया हूस्वत्व
टि० १. ०धाभावसम्भ० ग घ ङ च ॥ २. ०ष्ठाश्च वि० ख ग च ॥ ३. ०म्भवातः क ॥ ४. पि स्वविष० क घ ङ च ॥ ५. ०या यथा० ख ग ॥ ६. ०नीन्द्राणामनेनै० क ॥ ७. ०नैव विशि० ख ॥ ८. चागमोल्ले० क ॥ ९. ०दा आक्षिप्ताः ख ॥ १०. ०न्ते । अस्ति जी० ख ॥ ११. ०न चत्वारश्चत्वारो ग ॥ १२. ०ति तत्र स्वेनैव स्वरूपे० ख ॥ १३. पररूपव्यपेक्ष० क ॥