________________
३. शास्त्रान्तरैः सह तुलना
* आचा०नि०२२-२७
वर्ण-वर्णान्तरोत्पत्तिः
महर्षिवेदव्यासविरचिते महाभारतेऽपि वर्णान्तरोत्पत्तिः इत्थमेव प्रदर्शिता, तद् यथा - परं शवाद् ब्राह्मणस्यैव पुत्रः, शूद्रापुत्रं पारशवं तमाहुः ।
उक्त
शुश्रूषकः स्वस्य कुलस्य स स्यात्, स्वचारित्रं नित्यमथो न जह्यात् ॥ ५ ॥ तिस्रः क्षत्रियसम्बन्धाद् द्वयोरात्मास्य जायते । हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः ॥ ७ ॥ विप्रायां क्षत्रिय बाह्यं सूतं स्तोमक्रियापरम् । वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ १० ॥ शूद्रश्चाण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनाम् । ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनः । एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो ॥११॥ बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः ।
एतस्मिन्नैवाध्यायेऽग्रे वर्णान्तरेभ्यो सञ्जाता पञ्चद्दश वर्णसङ्करा जातयः प्रदर्शिताः, तास्तु तत एवावगन्तव्याः । इदमत्रवधेयम्-बुक्कसवर्णान्तरः अत्र 'पुल्कस' शब्देन दर्शितः तथा अम्बष्ठवर्णः स्पष्टतया न दर्शितस्तथापि एव, यतः तत्रैव महाभारते शान्तिपवणि उक्तं
शूद्रानिषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥ १२ ॥ शूद्रादयोगवश्चापि वैश्यायां ग्राम्यधर्मिणः ।
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः ॥ १३ ॥ [ महाभा० शान्ति०४८।५-१३]
* आचा०सू०२
क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा ।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः || अयोगाः करणा व्रात्याश्चाण्डालाश्च नराधिप ।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात् ॥
[महाभा० शान्ति० २९६८- ९]
सोहं " सोऽहमस्मीत्यग्रे व्याहरत् " - बृहदारण्यकोपनिषद् १|४१
"योऽसावसौपुरुषः सोऽहमस्मि" बृहदारण्यकोपनिषद् ५१५।११।, ईशावास्योपनिषद् १६ । " सोऽहमस्मि स एवाहमस्मि ” – छान्दोग्योपनिषद् ४।११।१, ४।१२।१, ४|१३|१ | “त्वामात्मासि यस्तवमसि सोऽहमस्मि तमाह कोऽहमस्मीति ” – कौशीतकी उपनिषद् १६ । "अहं सः सोऽहमस्मि " — नृसिंहोत्तरतापनी उपनिषद् ९ ।
विरूवरूवे फासे......
* आचा०सू०६
" मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । २।१४ । .... बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । ५।२१। ...... स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तर भुवोः | ५|२७|" - भगवद्गीता । " कतमो
२१