________________
राहगुप्तमन्त्रिकथानकम् [श्रु०१। अ०४। उ०२। नि०२३१] विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीर्थकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टेनि०] खुड्डग पायसमासं धम्मकहं पि य अजंपमाणेण।
छन्नेण अन्नलिंगी परिच्छिया राहगुत्तेणं॥२२९॥ खुड्डग पायसमासमित्यादि। अनया गाथया सक्षेपतः सर्वं कथानकमावेदितम्। क्षुल्लकस्य पादसमासः गाथापादसक्षेपः तं अजल्पता धर्मकथां च छन्नेन अप्रकटेन) अन्यलिङ्गिन:=प्रावादुकाः परीक्षिताः=निरूपिताः राहगुप्तेन राहगुप्तनाम्ना मन्त्रिणा इति गाथासमासार्थः ॥२२९॥ भावार्थस्तु कथानकाद् अवसेयः, तच्चेदम्
चम्पायां नगर्यां सिंहसेनस्य राज्ञो राहगुप्तो नाम महामन्त्री। स च अर्हद्दर्शनभावितान्तःकरणो विज्ञातसदसद्वादः। तत्र च कदाचिद् राजा आस्थानस्थो धर्मविचारं प्रस्तावयति। तत्र यो यस्य अभिमतः स तं शोभनमुवाच। स च तूष्णीम्भावं भजमानो राज्ञा उक्तः- 'विचारं प्रति किमपि न ब्रूते भवान्?' । से त्वाह-'किमेभिः पक्षपातवचोभिः?, *विमृशामः स्वत एव धर्मम्, परीक्षामहे तीर्थकान्' इत्यभिधाय राजानुमत्या ‘सकुंडलं वा वदणं ण व'त्ति अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता। नगर्यां चोघुष्टं यथा-'य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति, तद्भक्तश्च भविष्यती'ति। तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः। पुनश्च सप्तमेऽह्नि राजानं आस्थानस्थं उपस्थिताः। तत्रादावेव परिवाड् ब्रवीतिनि०] भिक्खं पवितॄण मएऽज दिढं पमदामुहं कमलविसालणेत्तं ।
वक्खित्तचित्तेण न सुट्ठु णायं, सकुंडलं वा वयणं न व त्ति॥२३०॥
भिक्खापविटेणेत्यादि। सुगमा, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तम्, न पुनः वीतरागता इति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्धाटितः॥२३०॥ पुनस्तापसः पठतिनि०] फलोदएणं "मि गिहं पविट्ठो, तत्थासणत्था पमदा “मि दिट्ठा ॥
टि० १. खुद्दग ञ॥ २. सर्वं इति खप्रतौ न॥ ३. नाम मन्त्री ख॥ ४. ०सदसद्भाव: ख॥ ५. प्रश्नयति क। प्रश्नयति स्म। तत्र ग॥ ६. स चाह ख।। ७. विमर्शामः कप्रतिमृते ।। ८. अयं श्लोकपादो ग॥ ९.सम्पूर्णश्लोकस्तु भाण्डागारित: ग॥ १०. एनं श्लोकपादं ग॥ ११. च श्लोकपादं ग॥ १२. सुठु दिटुं ॥ १३. वीतरागत्वेनेति क॥ १४. निर्धारितः गपुस्तकं विना॥ १५. म्हि ज ञ॥ १६. गिहे झ ञ॥ १७. पविढे ज॥ १८. मे झ ञ॥
३४३