________________
[श्रु०१। अ०४। उ०२। सू०१३९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् भवति तथा प्रज्ञापयाम इति। तान्येव पदानि सप्रतिषेधानि तु हन्तव्यादीनि यावद् न केवलं अन्यत्र अस्मदीये वचने नास्ति दोषः । अत्रापि अधिकारे जानीथ यूयं यथा- अत्र हननादिप्रतिषेधविधौ नास्ति दोष:=पापानुबन्धः, सावधारणत्वाद् वाक्यस्य नास्त्येव दोषः। प्राण्युपघातप्रतिषेधाच्च आर्यवचनमेतत्॥१३८॥
एवमुक्ते सति ते पाषण्डिका ऊचुः-'भवदीयं आर्यवचनं अस्मदीयं तु अनार्यं इत्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात् । तदत्राचार्यो यथा परमतस्य अनार्यता स्यात् तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न 'विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रेच्छनार्थमाहसू०] पुव्वं णिकाय समयं पत्तेयं पुच्छिस्सामो- 'हं भो पावादुया ! किं भे सायं दुक्खं उताहु असायं?' समिता पडिवण्णे या वि एवं बूया'सव्वेसिं पाणाणं सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ति' त्ति बेमि॥१३९॥
॥ सम्मत्तस्स बीओ उद्देसओ सम्मत्तो॥ ___ पुव्वमित्यादि। पूर्वम् आदावेव समयम् आगमं यद् यदीयागमे अभिहितं तत् निकाच्य-व्यवस्थाप्य पुनः तद्विरूपापादनेन परमतानार्यता प्रेतिपाद्येति, अतस्तदेव परमतं प्रश्नयति। यदि वा पूर्वं प्राश्निकान् निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह
पत्तेयमित्यादि। एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः ! भवतः प्रश्नयिष्यामि'किं भे=युष्माकं सातं मनआह्लादकारि दुःखं उत असातं मनःप्रतिकूलम्?' एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकबाधा स्यात्। अथ असातमित्येवं ब्रूयुः ततः समियामिति सम्यक् प्रतिपन्ना: तान् प्रावादुकान् स्ववाग्यन्त्रितान् ‘अप्येवं ब्रूयात्' अपिः सम्भावने, सम्भाव्यते एतद्भणनं यथा- न केवलं भवतां दुःखमसातं सर्वेषामपि प्राणिनां दुःखमसातं-मनसोऽनभिप्रेतं अपरिनिर्वाणम्=अनिर्वृत्तिरूपं महद्भयं दुःखमिति। एतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यम्। तद्धनने च दोषः, यः तु अदोषमाह तद् अनार्यवचनम्, इतिः अधिकारपरिसमाप्तौ, ब्रवीमि इति पूर्ववत्॥१३९॥
तदेवं प्रावादुकानां स्ववाग्नियन्त्रणया अनार्यता प्रतिपादिता। अत्रैव राहगुप्तमन्त्रिणा
टि० १. चलिष्यन्तीति च॥ २. प्रच्छनायाह ख॥ ३. प्रतिपादिता, अत० ख॥ ४. समियां सम्य० ख। समिया सम्य० ग घ ङ च।। ५. सम्भाव्यमेतद्भवनं ख॥ ६. तद्वधेन च ग च।।
३४२