________________
पश्यकस्य दर्शनम् [श्रु०१। अ०३। उ०४। सू०१२८] एतं पासगस्स दंसणं उवरतसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि ॥१२८॥
एयमित्यादि । एतत् यत् कषायवमनं अनन्तरं उपादेशि तत् ‘पश्यकस्य दर्शनं' सर्वं निरावरणत्वात् पश्यति उपलभते इति पश्यः, स एव पश्यकः तीर्थकृत् श्रीवर्धमानस्वामी, तस्य दर्शनम् अभिप्रायः; यदि वा दृश्यते यथावस्थितवस्तुतत्त्वं अनेन इति दर्शनं उपदेशः, न स्वमनीषिका । किम्भूतस्य पश्यकस्य दर्शनम् ? इत्याह
उवरय० इत्यादि । उपरतं द्रव्य-भावशस्त्रं यस्य असौ = उपरतशस्त्रः; शस्त्राद् वा उपरतः-शस्त्रोपरतः; भावशस्त्रं तु असंयमः कषाया वा, तस्माद् उपरतः । इदमुक्तं भवतितीर्थकृतोऽपि कषायवमनं ऋते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः; एवं अन्येन अपि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति । शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशेषणमाह
पैलियंतकडस्स पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरः, तस्य एतद् दर्शनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात् कर्मपर्यन्तकृद् एवं अन्योऽपि तदुक्तानुसारीति दर्शयितुमाह
आयाणमित्यादि । आदीयते-गृह्यते आत्मप्रदेशैः सह श्लिष्यते अष्टप्रकारं कर्म येन तद् आदानं, हिंसाद्याश्रवद्वारं अष्टादशपापस्थानरूपं वा तत्स्थितेः निमित्तत्वात् कषाया वा आदानं, तद्वमिता स्वकृतभिद् भवति, स्वकृतं अनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित् । यो हि आदानं कर्मणां कषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः । तीर्थकरोपदेशेन अपि परकृतकर्मक्षपणोपायाभावात् स्वकृतग्रहणम् । तीर्थकरेणापि पेरकृतकर्मक्षपणो पायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेन अवस्थानात् ॥१२८॥
ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ, न सर्वज्ञ इति सङ्गिरामहे, एतावतैव परोपकारकर्तृत्वेन "तीर्थकरत्वोपपत्तेः; तदेतन्न सतां मनांसि आनन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण हिता-ऽहित-प्राप्ति-परिहारोपदेशासम्भवः; यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह
टि० १. वा ग ।। २. तीर्थङ्कर० ख ॥ ३. पलियंतकरस्स ख-गप्रती विना ।। ४. सम्बन्धः ख ॥ ५. परकृतक्षपणोपायो न चाज्ञायीति ख ॥ ६. तीर्थकरोपपत्तेः । तदेव न सतां ख ॥ ७. दर्शयति-जे एगं ग॥
३१३