________________
॥ चतुर्थ उद्देशकः ॥ उक्तः तृतीयोद्देशकः । साम्प्रतं चतुर्थ आरभ्यते । अस्य च अयमभिसम्बन्धः- इह अनन्तरोद्देशके पापकर्माऽकरणतया दुःखसहनादेव केवलात् श्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानाद् इति एतत् प्रतिपादितम्; निष्प्रत्यूहता च कषायवमनाद् भवति; तदधुना प्राग् उद्देशार्थाधिकारनिदिष्टं प्रतिपाद्यते । तदनेन सम्बन्धेन आयातस्य अस्य उद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्; तच्चेदम्[सू०] से वंता कोहं च माणं च मायं च लोभं च ।
से वंता इत्यादि । स ज्ञानादिसहितो दुःखमात्रास्पृष्टः अव्याकुलितमतिः द्रव्यभूतो लोकाऽलोकप्रपञ्चाद् मुक्तदेश्यः स्व-परापकारिणं क्रोधं वमिता, "टुवम् उगिरणे" [ पा० . धा० ११८४९] इति अस्मात् ताच्छीलिक: तृन्, तद्योगे च षष्ठ्याः प्रतिषेधे क्रोधशब्दाद् द्वितीया । लुडन्तं वा एतत्, यो हि यथोक्तसंयमानुष्ठायी सो अचिरादेव क्रोधं वमिष्यति; एवं उत्तरत्रापि यथासम्भवं आयोज्यम् । तत्र आत्मा-ऽऽत्मीयोपघातकारिणि क्रोधकर्मविपाकोदयात् क्रोधः, जाति-कुल-रूप-बलादिसमुत्थो गर्वो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः । क्षपणोपशमक्रममाश्रित्य च क्रोधादिक्रमोपन्यासः । अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-सज्वलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः । चशब्दस्तु पर्वत-पृथिवी-रेणु-जलराजिलक्षणलक्षक: क्रोधस्य, शैलस्तम्भाऽस्थि-काष्ठ-तिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गी-मेषशृङ्ग-गोमूत्रिकाविरंबकलक्षणेलक्षको मायायाः, कृमिराग-कर्दम-खञ्जन-हरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीव-संवत्सर-चतुर्मास-पक्षस्थित्याविर्भावकश्च इति । तदेवं क्रोध-मान-मायालोभवमनादेव पारमार्थिकः श्रमणभावः, न तत्सम्भवे सति; यत उक्तम्
"सामण्णमणुचरंतस्स कसाया जस्स उक्कडा होति । मन्नामि उच्छुपुर्फ व निप्फलं तस्स सामण्णं ॥" [ दशवै०नि०८।३०१] "जं अज्जियं चरित्तं देसूणाए वि पुव्वकोडीए । तं पि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥"
[बृ०क०भा०२७१५-५७४७, निशी०भा०२७९३] स्वमनीषिकापरिहारार्थं गौतमस्वामी आह
टि० १. मुक्तदेशकः ङ ॥ २. ०ऽवलेक्खिा खि !)कलक्षण० ग । ०ऽवलेखलक्षण० च ॥
३१२