________________
[श्रु०१। अ०३। उ०३। सू०१२६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् लयितारमिति । एतदुक्तं भवति- यो हि कर्मणां तदाश्रवद्वाराणां च उच्चालयिता अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति; यो वा सन्मार्गानुष्ठायी स कर्मणां उच्चालयितेति ॥१२५।। स च आत्मनो मित्रम्, अतोऽपदिश्यते[सू०] पुरिसा ! अत्ताणमेव अभिणिगिज्झ, एवं दुक्खा पमोक्खसि ॥१२६॥
पुरिसा इत्यादि । हे जीव ! आत्मानमेव अभिनिगृह्य-धर्मध्यानाद् बहिः विषयाभिष्वङ्गाय निःसरन्तमवरुध्य, ततः एवम् अनेन प्रकारेण दुःखात् सकाशाद् आत्मानं प्रमोक्ष्यसि; एवं आत्मा कर्मणामुच्चालयिता आत्मनो मित्रं भवति ॥१२६॥ अपि च[सं०] पुरिसा ! सच्चमेव समभिजाणाहि । सच्चस्स आणाए से उवट्टिए मेधावी मारं तरति ।
पुरिसा इत्यादि । हे पुरुष ! सद्भ्यो हितः सत्यः संयमः, तमेव अपरव्यापारनिरपेक्षः समभिजानीहि आसेवनापरिज्ञया समनुतिष्ठ यदि वा सत्यमेव समभिजानीहि गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव । यदि वा सत्यः आगमः, तत्परिज्ञानं च मुमुक्षोः तदुक्तप्रतिपालनम् । किमर्थमेतत् ? इति चेद्, आह
सच्चस्सेत्यादि । सत्यस्य आगमस्य आज्ञया उपस्थितः सैन् मेधावी मार-संसारं तरति । किञ्च
सहिते धम्ममादाय सेयं समणुपस्सति ।।
सहीत्यादि । सहितः=ज्ञानादियुक्तः, सह हितेन वा युक्तः सहितः, धर्मं श्रुतचारित्राख्यम्, आदाय-गृहीत्वा; किं करोति ? इत्याह- श्रेयः पुण्यमात्महितं वा, सम्यक् -अविपरीततया अनुपश्यति-सेमनुपश्यति ।।
उक्तोऽप्रमत्तः तद्गुणाश्च । तद्विपर्ययमाहदुहतो जीवियस्स परिवंदण-माणण-पूयणाए, जंसि एगे पमादति ।
दुहओ इत्यादि । द्विधा राग-द्वेषप्रकारद्वयेनात्म-परनिमित्तमैहिका-ऽऽमुष्मिकार्थं वा, यदि वा द्वाभ्यां राग-द्वेषाभ्यां हतो-द्विहतः, दुष्टं हतो वा दुर्हतः; स किं कुर्यात् ? : जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दन-मानन-पूजनार्थं
टि० १. इदमुक्तं भवति ख च ॥ २. मोक्षो वेति च ॥ ३. सन् मारं ख । सन् मेधावी घ ॥ ४. युक्तो धर्मं क घ ङ ॥ ५. सम्यक् पश्यति ख च ॥ ६. यद्वा ख ॥
३१०