SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०५। सू०८८] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् ज्ञान-दर्शन-चारित्राणां अभिवृद्धिः; स च शरीरमृते न भवति, तदपि नोपष्टम्भकारणं अन्तरेण, तस्य च सावद्यस्य परिहारः कर्तव्य इत्यत आह से णाइए इत्यादि । स भिक्षुः तद् वा अकल्प्यं नाददीत-न गृह्णीयात्, नापि अपरं आदापयेत् ग्राहयेत्, न अपरं अनेषणीयं आददतं समनुजानीयात् । अथवा सइङ्गालं सधूम वा न अद्यात्-न भक्षयेत्, न अपरं आदयेत्, अदन्तं वा न समनुजानीयादिति । आह सव्वामगन्धमित्यादि । आमं च गन्धश्च आम-गन्धं समाहारद्वन्द्वः, सर्वं च तद् आम-गन्धं च सर्वाम-गन्धम्, सर्वशब्दः प्रकारकात्स्न्येऽत्र गृह्यते, न द्रव्यकात्स्न्ये । आमं अपरिशुद्धम्; गन्धग्रहणेन तु पूतिः गृह्यते । ननु च पूतिद्रव्यस्यापि अशुद्धत्वाद् आमशब्देनैव उपादानात् किमर्थं भेदेन उपादानमिति ? सत्यम्, अशुद्धसामान्याद् गृह्यते, किन्तु पूतिग्रहणेन इह आधाकर्माद्यविशुद्धकोटिः उपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानम् । ततश्च अयमर्थः-गन्धग्रहणेन आधाकर्म १, औद्देशिकत्रिकं २, पूतिकर्म ३, मिश्रजातं ४, बादरप्राभृतिका ५, अध्यवपूरकश्च ६, एते षडुद्गमदोषा अविशुद्धकोट्यन्तर्गता गृहीताः; शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेन उपात्ता दृष्टव्या इति। सर्वशब्दस्य च प्रकारकात्या॑भिधायकत्वाद् येन केनचित् प्रकारेण आमम्= अपरिशुद्धं पूतिः वा भवति तत् सर्वं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराम-गन्धः निर्गतौ आम-गन्धौ यस्मात् स तथा, परिव्रजेत् मोक्षमार्गे ज्ञान-दर्शन-चारित्राख्ये परिः =समन्ताद् गच्छेत्, संयमानुष्ठानं सम्यगनुपालयेदिति यावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथापि अल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत् तत्र प्रवृत्तिः; अतस्तदेव नामग्राहं प्रतिषिषेधिषुराह अदिस्समाणे कय-विक्कएसु । से ण किणे, ण किणावए, किणंतं ण समणुजाणए । अदिस्स० इत्यादि । क्रयश्च विक्रयश्च-क्रय-विक्रयौ, तयोः अदृश्यमानः । कीदृक्षश्च तयोः अदृश्यमानो भवति ? यस्तयोः निमित्तभूतद्रव्याभावाद् अकिञ्चनः । अथवा क्रय-विक्रययोः अदिश्यमान: अनपदिश्यमानः । कश्च तयोः अनपदिश्यमानो भवति ? यः क्रीतकृतापरिभोगी भवतीति आह टि० १. णाइते ख । णाईए घ ङ ।। २. गुरुत्वात् ख । ३. मिश्रजातत्रिकं ४ ग ।। ४. प्रतिषिषेधयिषुराह च ।। वि०टि० ० 'आमं अविसोधिकोडी, गंधो विसोधिकोडी' बृ०क०भा०चू०३१७ । 'आमम्- अविशोधिकोटि: गन्धं विशोधिकोटि:' बृ०क०भा०वृ०३१६ ॥ २४२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy