________________
आर्यप्रज्ञ आर्यदर्शी चानगारः
[श्रु०१। अ०२। उ०५ । सू०८८ ]
= मनुष्याणां भोजनाय - उपभोगार्थमिति ॥ ८७॥
तदेवं विरूपरूपैः शस्त्रैः आत्मपुत्राद्यर्थं कर्मसमारम्भप्रवृत्ते लोके पृथक् प्रहेणकाय श्यामाशाय प्रातराशाय केषाञ्चिद् मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्तव्यम् ? इत्याह
[सू०] समुट्ठिते अणगारे आरिए आरियपणे आरियदंसी अयंसंधीति अक्खु ।
से णाइए, णाइआवए, न समणुजाणए ।
सव्वामगंधं परिण्णाय णिरामगंधे परिव्वए ।
समुट्ठिए इत्यादि यावत् निरामगन्धो परिव्वए । सम्यक् सततं सङ्गतं वा संयमानुष्ठानेन उत्थितः=समुत्थितः, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः । अगारं=गृहं अस्य इति अनगार:, पुत्र - दुहितृ - स्नुषा - ज्ञाति-धात्र्यादिरहित इत्यर्थः । सोऽनगारः, आराद् यातः सर्वहेयधर्मेभ्य इति आर्यः चारित्रार्हः, आर्या प्रज्ञा यस्य असौ=आर्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः ; आर्यं = प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्च इति आर्यदर्शी, पृथक्प्रहेणक-श्यामाशनादिसङ्कल्परहित इत्यर्थः ; अयंसंधीति सन्धानं सन्धीयते वा असौ इति सन्धिः, अयं सन्धिः यस्य साधोः असौ = अयंसन्धिः, “छान्दसत्वाद् विभक्तेरलुग्" इति अयंसन्धिः यथाकालं अनुष्ठानविधायी, यो यस्य वर्तमानः कालः कर्तव्यतया उपस्थितः तत्करणतया तमेव सन्धत्त इति । एतदुक्तं भवति — सर्वाः क्रियाः प्रत्युपेक्षणोपयोग-स्वाध्याय- भिक्षाचर्या-प्रतिक्रमणादिका असपत्ना अन्योन्याऽबाधया आत्मीयकर्तव्यकाले करोति इत्यर्थः । इति : हेतोः, यस्माद् यथाकालानुष्ठानविधायी तस्माद् असावेव परमार्थं पश्यति इत्याह- अदक्खु ति । तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि; ततश्च अयमर्थः -यो हि आर्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थं अद्राक्षीत्, नापर इति ।
पाठान्तरं वा— अयं सैंधिमदक्खु । अयं अनन्तरविशेषणविशिष्टः साधुः सन्धि= कर्तव्यकालं अद्राक्षीत् = दृष्टवान् । एतदुक्तं भवति यः परस्पराऽबाधया हिता - Sहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थं ज्ञातवानिति । अथवा भावसन्धिः
टि० १. नानाविधकर्मशस्त्रमा० क ॥। २. असौ 5 ( अ ) नगारः क ॥। ३. श्रुतविशेषशेमुषीकः ग ॥ ४. हेतौ ग घ च ॥ ५. संधि अदक्खु अयम् अनन्तरोक्तविशेषण० ख च ॥
२४१