SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। नि०१७३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् प्रयोगैः, तथोच्चैः शिर उद्घाट्य सूक्ष्म-बादर-द्वि-त्रि-चतुः-पञ्चेन्द्रियसंज्ञीतर-पर्याप्तकाऽपर्याप्तकभेदांश्च प्रदर्श्य, शस्त्रं च स्वकाय-परकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य, पुनरपि तदेव चारित्रं यथा सम्पूर्णभावं अनुभवति तथा अनेन अध्ययनेन उपदिश्यते । तथा हि अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिविशुद्धस्य तद्योग्यतया आरोपितपञ्चमहाव्रतभारस्य साधोः यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथा अनेन अध्ययनेन प्रतिपाद्यते । तथा च नियुक्तिकारेण अध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग् निरदेशि-"लोगो जह बज्झइ जह य तं विजहियव्वं"[आचा०नि०३३] इति । अनेन सम्बन्धेन आयातस्य अस्य अध्ययनस्य चत्वारि अनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनम् =अनुयोगः, तस्य द्वाराणि उपायाः, व्याख्याङ्गानीत्यर्थः; तानि चोपक्रमादीनि । तत्रोपक्रमो द्वेधा-शास्त्रानुगतः शास्त्रीयः, लोकानुगतो लौकिक इति । निक्षेपः त्रेधा ओघ-नाम-सूत्रालापकनिष्पन्नभेदात् । अनुगमो द्वेधा- सूत्रानुगेमो निर्युक्त्यनुगमश्च । नया नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधाअध्ययनार्थाधिकार उद्देशार्थाधिकारश्च । तत्र अध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि; उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह[नि०] संयणे अदढत्तं बीयगम्मि माणो य अत्थसारो य । भोगेसु लोगणिस्साएँ लोगे अममिज्जता चेव ॥१७३॥ सयणे त्ति गाहा । तत्र प्रथमोद्देशकार्थाधिकारः स्वजने माता-पित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्यः इत्यध्याहारः; तथा च सूत्रम्-माया मे पिया मे [सू०६३]त्यादि । 'अदढत्तं बीयगम्मि' त्ति द्वितीयोद्देशके अदृढत्वं संयमे न कार्यमिति शेष, विषय-कषायादौ चादृढत्वं कार्यमिति; वक्ष्यति च–अरई आउट्टे मेहावी [सू०६९] । तृतीयोद्देशके 'माणो य अत्थसारो य' त्ति जात्याद्युपेतेन साधुना कर्मवशाद् विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च-के गोआवादी? के माणावादी [सू०७५]त्यादि; अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- तिविहेण जा टि० १. तद्योगतया० क च ॥ २. निष्पत्तिभे० ख ॥ ३. ०गमः सूत्रस्पर्शिकनिर्युक्य० ख । ४. सयणे य अद० झ ।। ५. ०णिस्सा लोगे झ-अप्रती विना ।। ६. ०मिति सम्बन्धः, विषय० क घ ङ । मिति सम्बन्धः, शेषविषय० ग च ॥ ७. अरमाउट्टे ख च विना । अरइमाउट्ट ग घ ङ ॥ १५४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy