________________
योने: नानात्रैविध्यम् [श्रु०१। अ०१। उ०६। नि०१५५] तथा नारका नपुंसकयोनय एव । तिर्यञ्चः त्रिविधाः- स्त्री-पुं-नपुंसकयोनयोऽपि । मनुष्या अप्येवं त्रैविध्यभाजः । देवाः स्त्री-पुंयोनय एव । तथा अपरं मनुष्ययोनेः त्रैविध्यम्, तद्यथा- कूर्मोन्नता, तस्यां च अर्हत्-चक्रवादिसत्पुरुषाणामुत्पत्तिः । तथा शङ्खावर्ता, सा च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां सम्भवोऽस्ति, न निष्पत्तिः । तथा वंशीपत्रा, सा च प्राकृतजनस्य इति ।
तथा अपरं त्रैविध्यं नियुक्तिकृद् दर्शयति, तद्यथा- अण्डजा पोतजा जरायुजाश्च इति । तत्र अण्डजाः पक्ष्यादयः, पोतजाः वल्गुली-गज-कलभादयः, जरायुजा गो-महिषीमनुष्यादयः; तथा द्वि-त्रि-चतुः-पञ्चेन्द्रियभेदाच्च भिद्यन्ते । एवमेत त्रसाः त्रिविधयोन्यादिभेदेन प्ररूपिताः । एतद्योनिसङ्ग्राहिण्यौ च गाथे
"पुढवि-दग-अगणि-मारुय-पत्तेय-निओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा ॥ विगलिदिएसु दो दो चउरो चउरो य नारय-सुरेसु । 'तिरियाण होंति चउरो चोद्दस मणुयाण लक्खाइं ॥" [ ] एवमेते चतुरशीतियोनिलक्षा भवन्ति । तथा कुलपरिमाणम्"कुलकोडिसयसहस्सा बत्तीसऽ?? नव य पणुवीसा ।
टि० १. मनुष्याणां योने० च ॥ २. सम्भवः । नास्ति निष्पत्तिः ख ॥ ३. ०ते त्रिधा तसा योन्यादि० ग ।। ४. ०सङ्ग्राहिण्योऽथ गाथा: ग घ ॥ ५. विगलिंदियाण दो ख च ॥ ६. तिरिएसु हुंति ख ॥ वि०टि० * तुलना-बृहत्सं०३५१-५२, प्रव०सारो०९६८-९६९ ॥ © तुलना-बारस सत्त य तिन्नि य सत्त य कुलकोडिसयसहस्साई ।
नेया पुढवि-दग-अगणि-वाऊणं चेव परिसंखा॥ कुलकोडिसयसहस्सा सत्तट्ठ य नव य अट्ठवीसं य । बेइदियं तेइंदिय चउरिदिय हरियकायाणं ॥ अद्धतेरस बारस दस दस कुलकोडिसयसहस्साइं। जलयर पक्खि चउप्पय उरभुयसप्पाण नव हुंति ॥ छव्वीसा पणवीसा सुरनेरड्याण सयसहस्साई बारस य सयसहस्सा कुलकोडीण मणुस्साणं ॥ एगा कोडाकोडी सत्ताणई भवे सयसहस्सा । पन्नासं च सहस्सा कुलकोडीणं मुणेयव्वा ।।
[बहत्सं०३५३-५७, जीवसमा०४०-४४, प्रव०सारो०९६३-९६७]
१२७