________________
॥ पञ्चमो वनस्पत्युद्देशकः ॥ उक्तश्चतुर्थ उद्देशकः । साम्प्रतं पञ्चमः समारभ्यते । अस्य च अयमभिसम्बन्धः-इह अनन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरं अविकलसाधुगुणप्रतिपत्तये क्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपं आविर्भाव्यते । किं पुनः क्रमोल्लङ्घनकारणम् ? इत्युच्यते-एष हि वायुरचाक्षुषत्वाद् दुःश्रद्धानः, अतः समधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते । स एव क्रमो येन शिष्या जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत् प्रतिपत्तुमिति । वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकेलापः, अतः स एव तावत् प्रतिपाद्यते इति । अनेन सम्बन्धेन आयातस्य अस्य चत्वारि अनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः । तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाह[नि०] पुढवीए जे दारा वणप्फईए वि होति ते चेव ।
नाणत्ती उ विहाणे परिमाणुवभोग-सत्थे य ॥१२६॥ पुढवीए इत्यादि । यानि पृथ्वीकायसमधिगतये द्वाराणि उक्तानि तान्येव वनस्पतौ दृष्टव्यानि, नानात्वं तु प्रेरूपणा-परिमाण-उपभोग-शस्त्रेषु, चशब्दाद् लक्षणे च दृष्टव्यमिति ॥१२६॥
तत्र आदौ प्ररूपणास्वरूपनिपिनाय आह[नि०] दुविहा वणस्सइजीवा सुहुमा तह बायरा ये लोयम्मि ।
सुहमा य सव्वलोए दो चेव य बायरविहाणा ॥१२७॥ दुविहेत्यादि । वनस्पतयो द्विविधाः-सूक्ष्मा बादराश्च । सूक्ष्माः सर्वलोकापन्नाः चक्षुर्लाह्याश्च न भवन्ति एकाकारा एव । बादराणां पुनढे विधाने ॥१२७।।
के पुनस्ते ? इत्यत आह[नि०] पत्तेया साहारण बायरजीवा समासओ दुविहा ।
बारसविह णेगविहा समासओ छव्विहा होति ॥१२८॥
टि० १. प्रारभ्यते ख ॥ २. ०कलापोपेतः । अतः ङ ॥ ३. प्ररूपणा-प्रमाण० ग ॥ ४. पनिमा॑नायाह ख ॥ ५. वि ञ । उठ ॥ ६. दो य भवे बायर० ञ ॥ ७. पुनस्ते बादरविधाने ? इत्यत ख ङ ।।
१०५