SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सचिताप्कायोपभोगे स्वाम्यदत्तम् [श्रु०१। अ०१। उ०३। सू०२७] परपरिगृहीतत्वात् परकीयगवाद्यादानवत्, एवं तानि शरीराणि अब्जीवगृहीतानि गृह्णतो अदत्तादानमवश्यम्भावि स्वाम्यनुज्ञानाभावादिति । ननु यस्य तत् तडाग-कूपादि तेन अनुज्ञातं सकृत् तत्पय इति, ततश्च न अदत्तादानम्, स्वामिनाऽनुज्ञातत्वात् परानुज्ञातपश्वादिघातवत् । ननु एतदपि साध्यावस्थमेव उपन्यस्तम्, यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैः उच्चैः आरटन् विशस्यते, ततश्च कथमिव न अदत्तादानं स्यात् ? न च अन्यदीयस्य अन्यः स्वामी दृष्टः परमार्थचिन्तायाम् । ननु एवमशेषलोकप्रसिद्धगोदानादिव्यवहार: त्रुट्यति, त्रुट्यतु नाम एवंविधपापसम्बन्धः, तद् हि देयं यद् दुःखितं स्वयं न भवति, दासी- बलीवर्दादिवत्, न च अन्येषां दुःखोत्पत्तेः कारणं हल-खड्गादिवत् । एतद्व्यतिरिक्तं दातृ-परिगृहीत्रोः एकान्तत एव उपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च "यत् स्वयमदुःखितं स्याद्, न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥" [ ] इति । तस्माद् अवस्थितमेतत्- तेषां तद् अदत्तादानमपीति ॥२६।। साम्प्रतमेतद् दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुराह[ सू०] कप्पइ णे कप्पइ णे पातुं, अदुवा विभूसाए । पुढो सत्थेहिं विउद्भृति ॥२७॥ कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए । अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः, यथा- "नैतत् स्वमनीषिकातः समारम्भयामो वयम्, किन्तु आगमे निर्जीवत्वेन अनिषिद्धत्वात् कल्पते युज्यते, न:-अस्माकं, पातुम् अभ्यवहर्तुमि''ति । वीप्सया च नानाविधप्रयोजनविषय उपभोगो अभ्यनुज्ञातो भवति, तथा हि- आजीविकभस्मस्नाय्यादयो वदन्ति पातुमस्माकं कल्पते, न स्नातुं वारिणा; शाक्य-परिव्राजकादयस्तु स्नान-पाना-ऽवगाहनादि सर्वं कल्पते इति भाषन्ते । एतदेव स्वनामग्राहं दर्शयति-अथवा उदकं विभूषार्थमनुज्ञातं नः समये । विभूषा च कर-चरण-पायु-उपस्थ-मुखप्रक्षालनादिका वस्त्र-भण्डकादिप्रक्षालनात्मिका वा। एवं टि० १. ०नुज्ञाभावादिति च ॥ २. जिनेन्द्र-वचनावलम्बिनः ख च ।। ३. धर्मकृते भवति तद् देयम् ख ॥ ४. उपभोगोऽनज्ञातो घ ॥ वि०टि० + "बलीवद्द(द) इति वैधर्म्यदृष्टान्तः" जै०वि०प० ।। ८७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy