SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जिनप्रवचने उदकजीवोपदेशः [श्रु०१ | अ०१ । उ०३ । सू०२६] शक्यमभ्युपगन्तुम् ? इत्यत आह- संति पाणा इत्यादि पूर्ववत् । कियन्तः पुनस्ते ? इति दर्शयति- जीवा अणेगा पुनः 'जीवो 'पादानं उदकाश्रितप्रभूतजीवभेदज्ञापनार्थम् । ततश्च इदमुक्तं भवति— एकैकस्मिन् जीवभेदे उदकाश्रिता अनेके असङ्ख्येयाः प्राणिनो भवन्ति । एवं च अब्विषयारम्भभाजः पुरुषाः तन्निश्रितप्रभूतसत्त्वव्यापत्तिकारिणो दृष्टव्याः । शाक्यादयस्तु उदकाश्रितानेव द्वीन्द्रियादीन् जीवान् इच्छन्ति नोदकमिति एतदेव दर्शयति— इहं च खलु भो अणगाराणं उदयं जीवा वियाहिया । खलुशब्दोऽवधारणे, इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गगणिपिटके, अनगाराणां= साधूनाम्, उदकं जीवाः उदकरूपा जीवाः चशब्दात् तदाश्रिताश्च पूतरक-छेदनकलोद्दणक-भ्रमरक-मत्स्यादयो जीवा व्याख्याताः । अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः । यद्येवं उदकमेव जीवाः, ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाजः साधवः इति ? अत्रोच्यते—नैतदेवम्, यतो वयं त्रिविधमप्कायं आचक्ष्महे- सचित्तं मिश्रमचित्तं च । तत्र यो अचित्तो अप्कायः तेन उपयोगविधिः साधूनाम्, नेतराभ्याम् । कथं पुनरसौ भवति अचित्तः ?, किं स्वभावादेव आहोश्वित् शस्त्रसम्बन्धात् ?, उभयथाऽपीति । तत्र यः स्वभावादेव अचित्तीभवति न बाह्यशस्त्रसम्बन्धात् तमचित्तं जानाना अपि केवलमनःपर्याया-ऽवधि-श्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, येतो नु श्रूयते— भगवता किल श्रीवर्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाहूदो व्यपगताऽशेषजलजन्तुको अचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकट - स्थण्डिलपरिभोगानुज्ञा च अनवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं च । तथा हि- सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेव अचित्तमिति व्यवहरति जलम्, न पुनः निरिन्धनमेव इति । अतो यद् बाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिः तद् अचित्तं साधुपरिभोगाय कल्पते । किं पुनस्तत् शस्त्रम् ? इत्यत आह टि० १. बाह्यशस्त्रसम्पर्कात् ख च । बाह्यशस्त्रसम्बन्धत्वात् घ ङ ॥ २. यतोऽनुश्रूयते ख ॥ ३. भगवन्तः घ । भगवता श्रीवर्ध० च ॥ ४ ०स्वामिनो घ ॥ ५. परिकल्पते च ॥ वि०टि० + तुलना - बृ०क० भा०११७-११९ । दृश्यतां परिशिष्टं तृतीयम् ॥ ८५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy