SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०३। सू०२४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् वा उदयसत्थं समारभंते समणुजाणति । तं से अहिताए, तं से अबोधीए ॥२४॥ [ सू०] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए । इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ॥२५॥ तंत्र खलु भगवता परिज्ञा प्रवेदिता, यथा-अस्यैव जीवितव्यस्य परिवन्दनमानन-पूजनार्थं जाति-मरण-मोचनार्थं दुःखप्रतिघातहेतुं यत् करोति तद् दर्शयति-स स्वयमेव उदकशस्त्रं समारभते, अन्यैश्च उदकशस्त्रं समारम्भयति, अन्यांश्च उदकशस्त्रं समारभमाणान् समनुजानीते । तच्च उदकसमारम्भणं तस्य अहिताय भवति, तथा तदेव अबोधिलाभाय भवति ॥२४॥ स एतत् सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थाय अभ्युपगम्य श्रुत्वा भगवतो अनगाराणां वा अन्तिके इह एकेषां साधूनां यद् ज्ञातं भवति तद् दर्शयतिएषः अप्कायसमारम्भो ग्रन्थः, एष खलु मोहः, एष खलु मारः, एष खलु नरकः । इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेण उदकशस्त्रं समारभमाणो अन्यान् अनेकरूपान् प्राणिनो विविधं हिनस्तीति ऐतत् प्राग्वद् व्याख्येयम् ॥२५।। पुनरप्याह[ सू०] से बेमि- संति पाणा उदयणिस्सिया जीवा अणेगा । से बेमीत्यादि । सेशब्द आत्मनिर्देशे, सः अहं एवं उपलब्धानेकाप्कायतत्त्ववृत्तान्तो ब्रवीमि- संति पाणा विद्यन्ते प्राणिनः उदकनिश्रिताः पूतरक-मत्स्यादयो यान् उदकारम्भप्रवृत्तो हन्यादिति । अथवा अपर: सम्बन्धः- प्रागुक्तं उदक शस्त्रं समारभमाणोऽन्यानपि अनेकरूपान् जन्तून् विविधं हिनस्तीति । तत् कथमेतत् टि० १. यतो क घ ङ ॥ २. एतत् प्रगृह्याख्येयम् ख ॥ ३. पाणा इति कप्रति परित्यज्य नान्यत्रास्ति ॥ ४. उदकमिश्रिताः क ग ।। ५. प्राणिनो ख ॥ ८x
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy