________________
७८
[श्रु०१ । अ०१ । उ० ३ । नि०११३]
[नि०]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
उस्सिचण गालणा धोयणे य उवकरण कोस भंडेय । बायर आउक्काए एयं तु समासओ सत्थं ॥११३॥
उस्सिचणेत्यादि । शस्त्रं द्रव्य भावभेदाद् द्विधा । द्रव्यशस्त्रं अपि समासविभागभेदाद् द्विधैव । तत्र समासतो द्रव्यशस्त्रमिदम् - ऊर्द्धं सेचनम् = उत्सेचनम्, कूपादेः कोशादिना उत्क्षेपणमित्यर्थः । गालनं घनमसृणवस्त्रार्द्धान्तेन । धावनं वस्त्राद्युपकरणचर्मकोश-घटादिभण्डकविषयम् । एवमादिकं बादराऽप्काये एतत् पूर्वोक्तं समासतः सामान्येन शस्त्रम् । तुशब्दो विभागापेक्षया विशेषणार्थः ॥ ११३ ॥ विभागतस्तु इदम्[नि० ] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे तु अस्संजमो सत्थं ॥११४॥
किंचीत्यादि । किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य । किञ्चित् परकायशस्त्रं मृत्तिका - स्नेह - क्षारादिकम् । किञ्चित् चोभयम् उदकमिश्रा मृत्तिका उदकस्य इति । भावशस्त्रं त्वसंयमः प्रमत्तस्य दुष्प्रणिहितमनो - वाक्- कायलक्षण इति ॥११४॥ शेषद्वाराणि पृथिवीकायवद् नेतव्यानि इति दर्शयितुमाह
[नि०]
सेसाणि उदाराइं ताइं जाई हवंति पुढवीए । एवं आउद्देसे निज्जुत्ती कित्तिया होई ॥११५॥
सेसाणीत्यादि । शेषाणि इति उक्तशेषाणि निक्षेप-वेदना-वध-निवृत्तिरूपाणि । तानि एव अत्रापि दृष्टव्यानि यानि पृथिव्यां भवन्तीति । एवं उक्तप्रकारेण अप्कायोद्देशके निर्युक्तिः निश्चयेन अर्थघटना कीर्तिता = प्रदर्शिता भवतीति ॥ ११५ ॥
साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्— [सू०] से बेमि- से जहा वि अणगारे उज्जुकडे णियागपडिवण्णे अमायं कुव्वमाणे विहिते ॥१९॥
से बेमीत्यादि । अस्य च अयमभिसम्बन्ध: - इह अनन्तरोद्देशके परिसमाप्तिसूत्रे ‘पृथिवीकायसमारम्भव्यावृत्तो मुनिः' इत्युक्तम्, न च एतावता सम्पूर्णो मुनिर्भवति, यथा च
टि० १. मत्त भंडे य ख ठ ॥ २. भावे य असंजतो ज झ ठ ॥ ३.०या एसा ख। ०या हुंति ज झ । ०या हुस्स ञ ॥ ४. ०बन्ध० ख ग ॥ ५. पृथिव्या ग ॥
वि०टि० 'नदीसम्बन्धिनम्' इत्यर्थः ॥