________________
४०२
भारतीय संस्कृतिके विकासमें जैन वाङ्मयका अवदान विज्ञाय शास्त्रमलमार्यभटप्रणीतं तन्त्राणि यद्यपि कृतानि तदीयशिष्यैः । कर्मक्रमो न खलु सम्यगुदीरितस्तैः कर्म ब्रवीम्यहमतः क्रमशस्तु सूक्तम् ॥
बृहत्संहितायां कुशलदैवज्ञाय प्रतिपादितयोग्यतायां क्षेत्रगणितस्य विशेषतः त्रिभुज. गणितस्य ज्ञानमावश्यकं कथितमस्ति । लिखितमस्ति
"तत्र ग्रहगणिते पोलिशरोमकवाशिष्ठसौरपैतामहेषु पञ्चष्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्त्तनाडीविनाडी प्राणत्रुटित्रुठ्य वयवाद्यस्य कालस्य क्षेत्रस्य च वेत्ता ।
चतुण्णां च मासानां सौरसावननाक्षत्रचान्द्राणामधिमासकावसम्भवस्य च कारणाभिज्ञः
षष्ट्यब्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिविच्छेदवित् । सौरादीनाञ्च मानानां सदृशासदृशयोग्यायोग्यत्वप्रतिपादनपटुः ।।
सिद्धान्तभेदेऽप्ययननिवृत्ती प्रत्यक्षं सममण्डलरेखासम्प्रयोगादिम्युदितांशकानाञ्च छाया जलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः सूर्यादीनाञ्च ग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञः ।
एतेनोद्धरणेन स्पष्टमस्ति यत् त्रिभुजस्य तदवयवानाञ्च परिज्ञानं परमावश्यकमासीत् । एतद्विना न ग्रहगणितस्य ज्ञानं सम्भवमासीत्, न च लौकिकविषयाणामेव । वराहमिहिरानन्तरं प्रतिभावान् गणितज्ञः ब्रह्मगुप्तो बभूव। तज्जन्म पञ्चनदप्रदेशे भिलनालनामकस्थाने ५५८ खीष्टाब्देऽभूत् । त्रिंशत्वर्षीयायामवस्थायां तेन 'ब्रह्मस्फुटसिद्धान्त' नामकग्रन्थस्य प्रणयनमकारि । सप्तषष्टि-वर्षीये वयसि 'खण्डखाद्य' नामकग्रन्थोऽनेन प्रणीतः । ब्रह्मस्फुटसिद्धान्ते त्रिभुजस्य भेद-प्रभेदानां तथा तेषां गणितविधीनां वर्णनं कृतमस्ति । शकसंवत्सरे चतुरशीत्युत्तरपञ्चशतसंख्याक मुजालेन लघुमानसग्रन्थो व्यरचि । यस्मिन् ग्रन्थे सूर्यग्रहण-चन्द्रग्रहण
शृंगोन्नति-ग्रहयुति-प्रभृत्यष्टाधिकारेषु त्रिभुजगणितस्य सिद्धान्तानामपि समावेशः कुतो विद्यते । समत्रिभुज-विषमत्रिभुजयोरनेकविधयो निरूपिताः सन्ति ।
खीष्टाब्दस्य नवमशताब्दे महावीराचार्येण गणितसारसंग्रहनामकग्रन्थो लिखितः । अस्य ग्रन्थस्यादी कथितमस्ति यत् कामतन्त्रार्थशास्त्र-गांधर्व-नाटक-सूपशास्त्र-वैद्यक-वास्तुविद्याछन्दोऽलंकार-काव्य-तर्क-व्याकरण-कलागुणादिविषयेषु गणितस्य परमावश्यकता भवति तथा गणिते परिकर्माष्टकेण सह त्रिभुजगणितस्य वृत्तगणितस्य च प्रमुखता प्रतिपादिता विद्यते ।' महावीराचार्येण त्रिभुजक्षेत्रस्यानेकभेदाः कीर्तिताः। यवाकार-मुरजाकार-पणवाकार-वज्राकारप्रभृति विभिन्नाकृतिधारिक्षेत्राणां गणितसाधनाय त्रिभुजोपयोगिता वर्णितास्ति । शंखाकृति क्षेत्रस्य फलानयनाय वृत्तणितेन सह त्रिभुजोपयोगिता कथिता वर्तते । ज्यामितिसम्बन्धिविभिन्ननियमानामाधारोऽपि त्रिभुजगणितं प्रतिपादितमस्ति । ___श्रीपतिः स्त्रीष्टाब्दस्य दशमशताब्दे ज्याखण्डानामानयनाय त्रिभुजमाधाररूपेण व्याख्यातवान् । लिखितमस्ति
दोःकोटिभागरहिताभिहताः खनागचन्द्रास्तदीयचरणो न शरार्कदिग्भिः,
ते व्यासखण्डगुणिता विहृताः फलं तु ज्याभिविनापि भवतो भुजकोटिजीवाः । १. गणितसारसंग्रहः, संज्ञाधिकारः, पद्य ९ से १८ तक ।