SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् द्वितीय उद्देशकः आघायं पुणएगेसिं, ऊववण्णा पुढो जिया । वेदयंतिसुहं दुक्खं, अदुवा लुप्पंति ठाणउ ॥१॥ छाया - आख्यातं पुनरेकेषा मुपपन्नाः पृथग्जीवाः । __ वेदयन्ति सुखं दुःख मथवा लुप्यन्ते स्थानतः ॥ अनुवाद - किन्हीं किन्हीं मतवादियों की ऐसी मान्यता है कि जीव सब पृथक् पृथक्-अलग अलग है । वे अलग-अलग ही सुख भोगते हैं तथा अलग-अलग ही दुःख भोगते हैं और अलग-अलग ही एक देह का त्याग कर दूसरी देह में चले जाते-पुनर्जन्म प्राप्त करते हैं । टीका - अथ प्रथमाध्ययने द्वितीय उद्देशकः प्रारम्भते-उक्तः प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयतेस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके स्वसमयपरसमयप्ररूपणाकता. इहाप्यध्ययनार्थाधिकारत्वात सैवाभिधीयते यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते । अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बन्धनं बुध्येत तच्च त्रोटयेदिति' तदेव च बन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदर्श्यते - तदेवमने कसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्य्यनुयोगद्वाराणि व्यावय सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् - अस्यचानन्तरपरम्परसूत्रे सम्बन्धो वक्तव्यः तत्रानन्तरसूत्र सम्बन्धोऽयम्-इहानन्तरसूत्रै इदमभिहितं, यथा पंचभूतस्कन्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसदग्रहाभिनितिष्टाः परमार्थावबोधविकला:? सन्त:संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गच्छन्तो नर्भमेष्यन्त्यन्वेषयन्तिवाऽनन्तश इति, तदिहा नियत्यज्ञानिज्ञानचतुर्विधकर्मापचवादिनां तदेव संसार चक्र बालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रं तु 'बुज्झेजे' त्यादि तेन च सहायं संबंधः-तत्र बुध्येतेत्येतत् प्रतिपादितम्, इहापि यदाख्यातं नियतिवादिभिस्तबुध्येत, इत्येवं मध्यसूत्रैरपि यथा संभवं सम्बन्धो लगनीय इति । तदेवं पूर्वोत्तरसम्बन्धसम्बद्धस्यास्य सूत्रस्याधुनाऽर्थः प्रतन्यतेपुनः शब्दः पूर्ववादिभ्यो विशेष दर्शयति । नियतवादिनां पुनरेकेषामेतदाख्यातं, अत्र च 'अविवक्षितकर्मकाअपि अकर्मकाभवन्तीतिख्यातेर्धातो वेनिष्ठा प्रत्ययः, तद्योगे कर्तरि षष्ठी ततश्चायमर्थः - तैर्नियतिवादिभिः पुनरिदयाख्यातं, तेषामयमाशय इत्यर्थः । तद्यथा-'उपपन्नाः' युक्त्या घटमानका इति।। अनेनच पंचभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च । पृथक् पृथक् नारकादिभवेषु शरीरेषु वेति, अनेनाऽप्यात्माऽद्वैतवादिनिरासोऽवसेयः । के पुनस्ते पृथगुपपन्ना:? तदाह-जीवाः प्राणिनः सुख दु:खभोगिनः, अनेन च पंचस्कन्धारिक्तिजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो दृष्टव्यः । तथा ते जीवाः पृथक् पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं दुःखञ्च वेदयन्ति अनुभवन्ति। न वयं प्रतिप्राणि प्रतीतं दुःखानुभवं निह्नमहे, अनेनचाकर्तृवादिनो निरस्ता भवन्ति । अकर्तर्यविकारिण्यात्मनि सुख दुः खानुभवानुपपत्तेरितिभावः तथैवदस्याभि पलप्यते 'अदुवे' ति अथवा ते प्राणिनः सुख दुःखं चानुभवन्ति विलुप्यन्ते उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्तेस्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः । ततश्चौपपातिकत्वमप्यस्माभिस्तेषां च निषिध्यत इति श्लोकार्थः ॥१॥ -560
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy