SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ स्वसमय वक्तव्यताधिकारः नियुक्तिगाथा "को वेएइ" इत्यादि व्याख्यायते, यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादि गाथा प्राग्वद् व्याख्येयेति । तदेवमात्मनोऽभावाद्योऽयं स्वसंविदितः सुखदुःखानुभवः स कस्य भवत्विति चिन्त्यताम् ? ज्ञानस्कन्धस्यायमनुभव इतिचेन्न, तस्याऽपि क्षणिकत्वात्, ज्ञानक्षणस्य चातिसूक्ष्मत्वात्सुखदुःखानुभवाभावः |क्रियाफलवतोश्च क्षणयोरत्यन्तासंगते:कृतनाशाकृताभ्यागमापत्तिरिति ) । ज्ञानसन्तान एकोऽस्तीति चेत्तस्याऽपि सन्तानिव्यतिरिक्तस्याभावाद् यत्किञ्चिदेतत्। पूर्वक्षण एव उत्तरक्षणे वासनामाधाय विनक्ष्यतीति चेत्, तथा चोक्तम् "यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना! फलं तत्रैव सन्धत्ते कार्पासे रक्तता यथा ?" अत्रापीदं विकल्यते-सा वासना किं क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वा? यदि व्यतिरिक्ता, वासकत्वाऽनुपपत्तिः, अथाव्यतिरिक्ता, क्षणवत् क्षणक्षयित्वं तस्याः तदेवमात्माऽभावे सुखदुःखानुभवाभावः स्याद्, अस्ति च सुखदुःखानुभवो, अतोस्त्यात्मेति।अन्यथा पंच विषयानुभवोत्तरकालमिन्द्रियज्ञानानाम्स्वविषयादन्यत्राप्रवृत्तेःसंकलनाप्रत्ययो न स्यात् । आलयविज्ञानाद् भविष्यतीति चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽप्यात्मप्रतिपादकोऽस्ति, स चायम् - "इत एकनवत्तौ कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्म विपाकेन पादे विद्धोऽस्मि भिक्षवः !" ॥१॥ तथा - "कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनि गर्हणेन। प्रकाशनात्संवरणाच्च तेषामत्यन्तमूलेद्धरणं वदामि॥२॥" इत्येवमादि । तथा यदुक्तं क्षणिकत्वं साधायता यथा 'पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वे'त्यादि,तत्र नित्येऽप्रच्युतानुत्पन्नस्थिरैक स्वभावेकारकाणांव्यापाराभावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव। यच्च नित्यत्वपक्षे भावताऽभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारित्वं नाऽपि यौगपद्येनेति' तत्क्षणिकत्वेऽपि समानं, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण यौगपद्येनवाऽवश्यं सहकारिकारण सव्यपेक्ष एव प्रवर्तते, यतः सामग्री जनिका, नह्येकं किंचिदिति । तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पायंते, क्षणस्याविवेकत्वेनानाधेयातिशयत्वात्, क्षणानांच परस्परोपकारकोपकार्य्यत्वानुपपत्तेःसहकारित्वाभावः,सहकार्य्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेव मनित्यएव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्राऽपि चेतदालोचनीयं-किं क्षण क्षयित्वेनानित्यत्व माहोस्वित् परिणामानित्यतयेति ? तत्र क्षण क्षयित्वे कारण कार्याभावात् कारकाणां व्यापारएवानुपपन्नः कुतःक्षणिकानित्यस्य कारणेभ्य उत्पाद इति ? ।अथ पूर्वक्षणादुत्तरक्षणोत्पाद सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं यतोऽसौ पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टोवा ? न तावद्विनष्टः तस्यासत्त्वाजनकत्वानुपपत्तेः, नाऽप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशात्क्षणभंगभंगापत्तेः । पूर्वक्षणो विनश्यंस्तूत्तरक्षण मुत्पादयिष्यिति तुलान्तयो मोन्नामवदितिचेदेवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता। तथा हि-याऽसौ विनश्यदवस्था,साऽवस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः,ततश्च तयोर्विनाशोत्पादयो यौंगपद्याभ्युपगमे, तद्धर्मताऽनुभ्युपगमे, तद्धर्मिणोरपि पूर्वोत्तरक्षणयो रेक कालावस्थायित्वमिति । तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोरवस्तुत्वापत्तिरिति । यच्चोक्तम्-"जातिरेव हि भावाना मि" त्यादि, तत्रेदयमिधीयते-यदि जातिरेवउत्पत्तिरेव भावानां पदार्थानामभावे हेतुस्ततोऽभावकारणस्यसन्निहितत्वेन विरोधेनाघ्रातत्वादुत्पत्त्यभावः। अथोत्पत्त्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति उत्पत्तिक्रियाकाले तस्याऽभूतत्वात्पश्चाच्च भवन्ननतर एव भवति न भूयसा कालेनेति किमत्र नियामकम् ? विनाशहेत्वभाव इति चेत् यत उक्तम्-"निर्हेतुत्वाद्विनाशस्यस्वभावादनुबन्धितेति", -.450
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy