SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ श्री गाथाध्ययनं ततो यत् कैश्चिदभिधीयते, तद्यथा - एक एवात्मा सर्वपदार्थस्वभावतया विश्वव्यापी श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भूताभ्युपगमः परिहृतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाणस्याभावादित्यभिप्रायः । 'द्विधाऽपीति द्रव्यतो भावतश्च तत्र द्रव्यस्रोतांसि स्रोतांसि यथास्वं विषयेष्विन्द्रिय प्रवृत्तयः भावस्रोतांसितु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोभवास्तान्युमयरुपाण्यापिस्त्रोतांसि संवृतेन्द्रियतया रागद्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी किन्तु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयति-धर्मः - श्रुतचारित्राख्यस्तेनार्थः स एव वाऽर्थो धर्मार्थः स विद्यते यस्यासौ धर्मार्थीति, इदमुक्तं भवति-न पूजाद्यर्थं क्रियासु प्रवर्तते अपितु धर्मार्थीति । किमिति ? यतो धर्मं यथावत्तत्फलानि च स्वर्गावाप्तिलक्षाणनि सम्यक् वेत्ति, धर्मं च सम्यग् जानानो यत्करोति तद्दर्शयति - नियागो - मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्न नियागपडिवन्नेत्ति, तथा विधश्च यत्कुर्यात् तदाह - 'समि (भ) यं' ति समतां समभावरूपां वासीचन्दनकल्पां 'चरेत्’सततमनुतिष्ठेत् । किंभूत सन् ? आह- दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहन श्रमणभिक्षु शब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थ इति वाच्यः । तेऽपि माहनादयः शब्दा निर्ग्रन्थशब्द प्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जना अपि कथञ्चिदेकार्था इति ॥५॥ साम्प्रतमुपसंहारार्थमाह-सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह-' से ' इति तद्यन्मया कथितमेवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः यस्मादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्त्रातारो रागद्वेषमोहान्यतरकारणाभावादन्यथा ब्रुवते, अतो यन्मयाऽऽदितः प्रभृति कथितं तदेवमे वावगच्छतेति। इति: परिसमाप्त्यर्थे।ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवेशात्संग्राहदयः षट्ः समभिरूढ़ेत्थंभूतयोः शब्दनयप्रवेशान्नैगम-संग्रहव्यवहारर्जुसूत्रशब्दाः पञ्चः नैगमस्याप्यन्तर्भावाच्चत्वारो, व्यवहारस्यापि सामान्य विशेषरूपतया सामान्य विशेषात्मनोः संग्रहर्जुसूत्रयो रन्तर्भावात्संग्रहर्जुसूत्रशब्दास्त्रयः, ते च द्रव्यास्तिक पर्यायास्तिकान्तर्भावाद्द्रव्यास्तिकपर्यायास्तिकाभिधानौ द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानौ द्वौ तत्रापि ज्ञाननयो ज्ञानमेव प्रधानमाह क्रियानयश्च क्रियामिति । नयानां च प्रत्येकं मिथ्यादृष्टित्वाज्ज्ञानक्रिययोश्च परस्परापेक्षितया मोक्षाङ्गत्वादुभयमत्र प्रधानं, तच्चोभयं सत्क्रियोपेते साधौ भवतीति, तथा चोक्तम् " णायम्मि गिहियव्वे अगिहियव्यंमि चे व अत्थंमि । जइयव्वमेव इति जो उवएसो सो नओ नाम ॥१॥" छाया ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे यतितव्यमेवेति य उपदेशः स नयो नाम ॥१॥ छाया " सव्वेसिंपि णयाणं वहुविहवत्तव्वयं णिसामेत्ता । तं सव्वनयविसुद्धं जं चरण गुणट्ठिओ साहू ॥२॥ सर्वेषामपि नयानां बहुविधां वक्तव्यतां निशम्यत त्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः ॥२॥ त्ति, समाप्तं च गाथाख्यं षोडशमध्ययनं, तत्समाप्तौ च समाप्तः प्रथमः श्रुतस्कन्ध इति ॥ ( ग्रन्थाग्रम् ८१०६) टीकार्थ जो पुरुष राग द्वेष से वर्जित होने के कारण एकाकी अकेला हैं अथवा इस संसार चक्र में पर्यटन करता हुआ प्राणी अपने द्वारा किये गये कर्मों के सुख दुःख रूप फल को अकेला ही भोगने के कारण, अकेला ही परलोक में जाने के कारण वह सदा एकाकी या अकेला ही है । जो साधु संयमाचरण में उत्कृष्ट भाव से विहरणशील है, वह द्रव्य और भाव दोनों ही दृष्टियों से एकाकी है । कारणवश गच्छसंघ के भीतर रहते हुए वह द्रव्य दृष्टि से भाज्य है-संघ का एक भाग औरों के साथ है किंतु भावदृष्टि से वह अकेला ही होता है । इसी प्रकार जो यह जानता है कि आत्मा एकाकी ही परलोक में जाती है वह एकवित् है । अथवा दुःख से मेरा कोई परित्राण- रक्षण करने वाला सहायक नहीं है, ऐसा जो जानता है, वह - 625
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy