SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् संदंशकायस्पिण्डयोस्तद्भिन्नोऽयस्कार इति यश्चात्रेन्द्रियैः करणै विषयाणामादाता ग्राहकः स तद्भिन्न आत्मेति, तथा विद्यमान भोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्त्वानित्यत्वसंहतत्वदर्शनादात्मापितथैव स्यादिति धर्मि विशेषविपरीतसाधनत्वेन विरुद्धाशंका न विधेया, संसारिण आत्मनः कर्मणा सहान्योऽन्यानुबन्धतः कथञ्चिन्मूर्त्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सत्त्वा औपपातिका' इति तदप्ययुक्तं यतस्तदहजतिबालकस्य यः स्तनाभिलाषः सोऽन्याभिलाषपूर्वकः, अभिलाषत्वात्, कुमाराभिलाषवत् तथा बालविज्ञानमन्यविज्ञानपूर्वकं, विज्ञानत्वात्, कुमार विज्ञानवत्, तथाहि तदहर्जातबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति तावन्नोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति बालके विज्ञानलेशः, सचान्यविज्ञानपूर्वकः, तच्चान्यद्विज्ञानं भवान्तर विज्ञानं, तस्मादस्तिसत्त्व औपपातिक इति । तथा यदभिहितं, 'विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतीति, तत्राप्ययमर्थो - 'विज्ञानघनो' विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थायेति प्राक्तन कर्मवशात्तथाविधकायाकारपरिणते भूतसमुदायेतद्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति । तथा यदुक्तम्- ' धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव' इति, तदप्य समीचीनं, यतो धर्मी तावदनन्तरोक्ति कदम्बकेन साधित:, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्यदर्शनाच्च । यत्तु स्वभावमाश्रित्योफलशकलं दृष्टान्तत्वेनोपन्यस्तं तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवार: पुण्यापुण्यसद्भाव इति । येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतव्यतिरिक्तस्य परलोकयायिनः सारभूतस्य साधितत्वात् केवलं भवतो वाचालतां प्रख्यापयन्ति इत्यलमतिप्रसंगेन । शेषं सूत्रं विव्रियतेऽधुनेति । तदेवं 'तेषां' भूतव्यतिरिक्तात्मनिह्नववादिनां योऽयं 'लोकः' चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभगदुर्भगसुरुपमन्दरूपेश्वरदारिद्रयादिगत्या जदगद्वैचित्र्यलक्षणश्च स एवम्भूतो लोकस्तेषां 'कुतोभवेत् ?' कयोपपत्या घटेत ? आत्मनोऽनभ्युपगमात्, न कथञ्चिदित्यर्थः, 'ते च' नास्तिकाः परलोकयायि जीवाऽनभ्युपगमेन पुण्यपापयोश्चाऽभावमाश्रित्य यत्किञ्चन कारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तभो यान्ति भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः सञ्चिन्वन्तीत्युक्तं भवति, यदिवा - तम इव तमोदुःखसमुद्घातेन सदसद्विवेकप्रध्वंसित्वाद्यातनास्थानं तस्माद् एवं भूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां रौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः । किमिति ? यतस्ते 'मन्दा' जड़ामूर्खा:, सत्यपि युक्त्युपपन्ने आत्मन्यसदभिनिवेशात्तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे-व्यापारे निश्चयेन नितरां वा श्रिता:- सम्बद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति । तथा तज्जीवतच्छशरीरवादिमतं नियुक्तिकारोऽपि निराचिकीर्षुराह - 'पंचण्ड' मित्यदिगाथा प्राग्वद - त्रापि ॥ ३३ ॥ साम्प्रमकारकवादिमतमाश्रित्यायमनन्तर (रोक्त) श्लोको भूयोऽपि व्याख्यायते ये एते अकारकवादिन आत्मनोऽमूर्त्तत्वनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपन्नाः तेषां य एष 'लोको ' जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यङ्मनुष्यामरगतिरूपः सोऽयमेवम्भूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्न स्थिरैक स्वभावे ' कुत: 'कस्माद्धेतोः स्यात् ? न कथञ्चित्कुतश्चित्स्यादित्यर्थः, ततश्च दृष्टेष्टबाधारूपात्तमसोऽज्ञानरूपात्तेतमोऽन्तरं - निकृष्टं यातनास्थानं यान्ति, किमिति ? यतो 'मन्दा' जड़ा: प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति ॥ अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थ को वेएई अकयं ? कयनासो पंचहा गई नत्थि । देवमणुस्सगयागइ जाईसरणा इयाणं च ||३४|| आत्मनोऽकर्तृत्वात्कृतं नास्ति, ततश्चाकृतं को वेदयते ? तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनुभूयेत तथा सत्यकृतागमकृतनाशापत्तिः स्यात्, ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः 30
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy