SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्वसमय वक्तव्यताधिकारः नेश्वरः यदि पुनरीश्वरः स्यात किं कुम्भकारेणेति? नैतदस्ति, तत्राऽपीश्वर एव सर्वव्यापितया निमित्तकारणत्वेन व्याप्रियते, नन्वेवं दृष्टहानि रद्दष्टकल्पना स्यात् । तथा चोक्तम् शत्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोहणे । असम्बद्धस्य किं स्थाणोः' कारणत्वं न कल्प्यते ? ।१। तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति । अपिच-देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः तद् दृष्टान्तसाधितश्चेश्वर एवम्भूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्, व्याप्त्यसिद्धेर्नानुमानमिति । अनयैव दिशा स्थित्वा प्रकृत्त्यादिकमपि साधन मसाधन मायोज्यं तुल्य योगक्षेमत्वादिति। यदपिचोक्तं प्रधानादिकृतोऽयंलोक" इति तदप्यसङ्गतं, यतस्तत्प्रधानं किं मूर्तममूर्तंवा ? यद्यमूर्तं नततो मकराकरादेर्मूतस्योद्भवो घटते, न ह्याकाशाकिञ्चिदुत्पद्यमान मालक्ष्यते, मूर्तामूर्तयोः कार्यकारणविरोधादिति । अथ मूर्तं तत्कुतः समुत्पन्न ? न तावत्स्वतो, लोकस्याऽपि तथोत्पत्तिप्रसङ्गात् । नाप्यन्यतोऽनवस्थापत्तेरिति । यथाऽनुत्पन्नेमेवप्रधानाद्यनादिभावेनाऽऽस्ते तद्वल्लोकोऽपि किं नेष्यते ? अपिच- सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, नचाविकृतात्प्रधान्महदादे रुत्पत्तिरिष्यते भवद्भिः, नच विकृतं प्रधान व्यपदेश मास्कन्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति । अपिच अचेतनायाः प्रकृतैः कथं पुरुषार्थं प्रति प्रवृत्तिः ? येनाऽत्यनो भोगोपपत्त्या सृष्टिः स्यादिति, प्रकृतेरयं स्वभाव इति चेदेवं तर्हि स्वभाव एव वलीयान् यस्तामपि प्रकृतिं नियमयति, तत एव च लोकोऽप्यस्तु किमदृष्टप्रधानादिकल्पनयेति ? । अथादिग्रहणात् स्वभावस्याऽपि कारणत्वं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽभ्युपगम्यमानौ नः क्षति मातनोति । तथाहि-स्वोभावः स्वभावः स्वकीयोत्पत्तिः सा च पदार्थाना मिष्यत एवेति तथा यदुक्तं "नियतिकृतोऽयंलोक" इति तत्राऽपि नियमनं नियति यद्यथा , भवनं नियतिरित्युच्यते, सा चालोच्यमाना न स्वभावादतिरिच्यते । यच्चाऽभ्यधायि-स्वियम्भुवोत्पादितो लोक' इति तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तम्भवति ? किं यदाऽसौभवति तदा स्वतन्त्रोऽन्यनिरपेक्ष एव भवति, अथानादिभवनात्स्वयम्भूरिति व्यपदिश्यते ? तद्यदि स्वतन्त्रभवनाऽभ्युपगमस्तद्वल्लोकस्यापि भवनं किं नाऽभ्युपेयते ? किं स्वयम्भुवा ? अथाऽनादि स्ततस्तस्याऽनादित्वे नित्यत्वं नित्यस्यचैकरूपत्वात्कर्तृत्वाऽनुपपत्तिः, तथा वीतरागत्वात्तस्य संसार वैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता। मू-मूत्तीदिविकल्पाश्च प्राग्वदायोज्या इति यदपि चात्राऽभिहितम्-'तेन मारः समुत्पादितः, स च लोकं व्यापादयति' तदप्यकर्तृत्वस्यभिहितत्वात्प्रलापमात्र मिति तथा यदुक्तम् "अण्डादिक्रमजोऽयं लोक" इति तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ताः यथाऽण्डमन्तरेणाभूवन् तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद् बाधा दृश्यते तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कस्मान्नोत्पादयति ? किमनया कष्टया युक्त्यसङ्गतया चाण्डपरिकल्पनया ? एवमस्त्विति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद् ब्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया उरुभ्यां वैश्याः पद्भ्यां शूद्रा इति, तदप्ययुक्तिसङ्गतमेव, यतो न मुखा देः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते। अथाऽपि स्यात्तथासति वर्णानामभेदः स्याद्, एकस्मादुत्पत्तेः । तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्याद्, एकस्मान्मुखादुत्पत्तेः । एवञ्चोपनयनादिसद्भावो न भवेद् भावे वा स्वस्रादिग्रहणापत्तिः स्याद् एवमाद्यनेकदोष दुष्टत्वादेवं लोकोत्पत्ति भ्युिपगन्तव्या । ततश्च स्थितमेतत्-त एवं वादिनो लोकस्यानाद्यपर्य्यवसित स्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य, वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथि व्यात्मकाधोलोकस्य, स्थालाकारासंख्येयद्वीप समुद्राधारमध्यलोकस्य, मल्लकसमुद्गकाकारोव॑लोकस्य, धर्माधर्माकाशपुद्धलजीवात्मकस्य,द्रव्यार्थतया नित्यस्य,पर्यायापेक्षया क्षणक्षयिणः, उत्पाद्व्ययध्रौव्यापादितद्रव्यसतत्त्वस्यानादिजीवकर्मसम्बन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्म लोकान्तोपलक्षितस्य तत्त्वमजानानाः मृषा वदन्तीति ॥९॥] 101
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy