________________
पुरातनम् । समाप्यते ।। 4 । ।
दममेव महाराज धर्ममाहुः स्वाध्यायाभ्यसनं चैव तत्र कर्म क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत । दद्याद्राजन्न याचेत् यजेत न च याजयेत् ।। 5 ।। नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् । नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् । 16 ।। दानमध्ययनं यज्ञः शौचेन धनसंचयः । पितृवत्पालयेद्वैश्यो युक्तः सर्वान् पशूनिह । । 7 ।। शूद्र एतान्परिचरेत् त्रीन्वर्णाननुपूर्वशः । सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन ।। 8 ।। अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ।
छात्र
वेष्टनमौशीरमुपानद्व्यजनानि च ।।9।। यातयामानि देयानि शूद्राय परिचारिणे । देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ । । 10 ।। स्वाहाकार वषट्कारौ मन्त्रः शूद्रे न विद्यते । तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान्स्वयम् । । 11 । ।
(1) सर्व वर्णनां के-के धर्माः ? चातुर्वर्ण्यस्य च के-के पृथक् धर्माः ? चातुर्वर्ण्याश्रमाणां च के धर्माः । राजधर्माः च के मताः ? (2) अक्रोधः - न क्रोधः । स्वेषु दारेषु - स्वकीयासु स्त्रीषु । प्रजनः - संतानोत्पत्तिः । शौचं - शुद्धता । ( 3 ) यो ब्राह्मणस्य धर्मः अस्ति । तं धर्मं ते - तुभ्यं । वक्ष्यामि - कथायिष्यामि - वदिष्यामि (4) दमः–इन्द्रियदमनम् पुरातनं - सनातनम् । स्वाध्यायस्य - वेदस्य । अभ्यसनं - अध्ययनम् । ( 5 ) दद्यात् - दानं कर्तव्यम् । न याचेत - याचना न कर्तव्या ।
1
दस्युनां - चौरादीनां दुष्टानां वधः दस्युवधः । ( 7 ) धनस्य संचयः संग्रहः धनसंचयः । वैश्यः सर्वान् पशून् इह युक्त स्वकर्मणि नियुक्तः पितृवत् यथा पिता स्वपुत्रान् पालयति तथा पालयेत् । (8) एतान् त्रिवर्णान् शूद्रः विद्याहीनः परिचरेत । संचयान् धनस्य संग्रहं कथञ्चन कदापि शूद्र न कुर्वीत ।
पाठ 38
1. गल् (भक्षणे स्रावे च ) 2. गुञ्ज (अव्यक्ते शब्दे )
प्रथम गण,
परस्मैपद
= खाना और गलना - गलति । = अस्पष्ट शब्द करना - गुञ्जति ।
147